वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 439, कुल 490 में से
संदर्भ में पढ़ेंदेवीपुराणोक्ता चिह्नेषु देवीपूजा । ४४३ भवेयुर्नात्र सन्देहाम्बिकाविधिपूजनात् ॥ जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥ अनेनैव तु मन्त्रेण जपहोमं तु कारयेत् । प्रातस्तु संस्मृता वत्स महिषघ्नी प्रपूजिता ॥ अघं नाशयेत क्षिप्रं यथा सूर्योदये तमः । सिंहारूढा ध्वजे यस्य नृपस्य रिपुहा उमा ॥ द्वारस्था पूज्यते वत्स न तस्य रिपुजं भयम् । कपिसंस्था महामाया सर्वशत्रुविनाशिनी ॥ वृषे यथेप्सितं दद्यात्कलभे श्रियमुत्तमाम् । हंसे विद्यार्थकामांस्तु बर्हिणेऽभीष्टपुत्रदा ॥ गरुत्मति महामाया सर्वरोगविनाशिनी । महिषस्था महामारीं शमयेद्ध्वजसंस्थिता ॥ करिगा सर्वकार्येषु नृपैः कार्या त्रिशूलिनी । पद्मस्था चर्चिका रौप्या धर्मकामार्थमोक्षदा ॥ प्रेतस्था सर्वभयहा नित्यं पशुनिपातनैः । पूजिता देवराजेन्द्र नीलोत्पलकरा वरा ॥ भवेत्तु सिद्धिकामस्य चिह्नाग्रे संव्यवस्थिता । चिह्नानि, राज्ञो ध्वजपताकादीनि, तेषामग्रे । गन्धपुष्पार्चितां कृत्वा वस्त्रहेमसुचर्चिताम् ॥ फलशालियवैः शूकवर्द्धमानैर्विभूषिताम् । शोभनामुच्छ्रयेदग्रे पताकां वा मनोरमाम् । चामरं कलशं शङ्खं सातपत्रं वितानकम् ॥ भवेत्तु सिद्धिकामस्य नृपस्य फलदायकम् । नमो विश्वेश्वरि दुर्गे चामुण्डे चण्डहारिणि ।