वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 441, कुल 490 में से
संदर्भ में पढ़ेंलोहाभिसारिकाविधिः । ४४५ यथा सन्तुष्यते मेषैर्महिषैर्विन्ध्यवासिनी ॥ वलिदानं च मांसमाषसहितौदनेन क्रियमाणम् । एवं च विन्ध्यवासिन्यां नवरात्रोपवासिना । एकभक्तेन नक्तेन स्वशक्त्याऽयाचितेन च ॥ पूजनीया जनैर्देवी स्थाने स्थाने पुरे पुरे । स्नातैः प्रमुदितैर्हृष्टैर्ब्राह्मणैः क्षत्रियैर्नृपैः ॥ वैश्यैः शूद्रैर्भक्तियुक्तैर्म्लेच्छैरन्यैश्च मानवैः । स्त्रीभिश्च कुरुशार्दूल तद्विधानमिदं शृणु ॥ जलाभिलाषी नृपतिः प्रतिपत्प्रभृति क्रमात् । लोहाभिसारिकं कर्म कारयेद्यावदष्टमी ॥ इति । लोहाभिसारिकविधानं च— तत्रैवोक्तम्, प्रागुदक्प्रवणे देशे पताकाभिरलङ्कृते । मण्डपं कारयेद्दिव्यं नवसप्तकरं वरम् ॥ नवसप्तकरं, षोडशहस्तप्रमाणमित्यर्थः । आग्नेय्यां कारयेत्कुण्डं हस्तमात्रं सुशोभनम् । मेखलात्रयसंयुक्तं योन्या स्वच्छन्दलाभया ॥ राजचिह्नानि सर्वाणि शस्त्राण्यस्त्राणि यानि च । आनीय मण्डपे तानि सर्वाण्यण्यधिवासयेत् ॥ ततस्तु ब्राह्मणः स्नातः शुक्लाम्बरधरः शुचिः । ॐकारपूर्वकैर्मन्त्रैस्तलिलैर्जुहुयाद्घृतम् ॥ लोहनामाऽभवत्पूर्वं दानवः सुमहाबलः । स देवैः समरे क्रुद्धैर्बहुधा शकलीकृतः ॥ तदङ्गसम्भवं लोहं सर्वं यद्दृश्यते क्षितौ । शस्त्रास्त्रमन्त्रैर्होतव्यं पायसं घृतसंयुक्तम् ।