भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 442, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 442

४४६ वीरमित्रोदयस्य राजनीतिप्रकाशे हुतशेषं तुरङ्गाणां राजानमुपहारयेत् ॥ लोहाभिसारिकं कर्म तेनैतदृषिभिः स्मृतम् । धृतपल्ययनानश्वान् गजांश्च समलङ्कृतान् ॥ भ्रामयेन्नगरे नित्यं नन्दिघोषपुरस्कृतम् । प्रत्यहं नृपतिः स्नात्वा सम्पूज्य पितृदेवताः ॥ पूजयेद्राजचिह्नानि फलमाल्यविलेपनैः । तस्याभिसरणाद्राज्ञो विजयः समुदाहृतः ॥ पूजामन्त्रान् प्रवक्ष्यामि पुराणोक्तानहं तव । यैः पूजिता प्रयच्छन्ति कीर्तिमायुर्यशोबलम् ॥ इति । एते च मन्त्रा यात्राप्रकरणेऽभिहिता इति तत्रैवानुसन्धेयाः इति लोहाभिसारिकं कर्म । अथ गवोत्सर्गः । तत्र देवीपुराणे, कृष्णपक्षे त्वमावास्या कार्तिकस्य ततः परे । योऽह्नि कुर्याद्गवोत्सर्गमश्वमेधफलं लभेत् ॥ सुवर्णदाने गोदाने भूमिदाने च यत्फलम् । तत्फलं कोटिगुणितं गवोत्सर्गेण लभ्यते ॥ तस्मान्मनोरमे स्थाने शाद्वले गर्तवर्जिते । शर्करा अश्मरहिते शङ्खभेरीनिनादिते ॥ स्तम्भद्वयं समारोप्य पूर्वपश्चिमसंस्थितम् । तत्र दर्भमयी कार्या शरवंशभवाथवा ॥ मध्ये कम्बलसंयुक्ता दीर्घारज्जुः सुशोभना । उभयोः पार्श्वयोर्विप्रा वेदध्वनिसमन्विताः ॥ एवंविधानतः कृत्वा उत्सर्गं कारयेत्ततः ।