वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 443, कुल 490 में से
संदर्भ में पढ़ेंगवोत्सर्गो देवीपुराणोक्तवसोर्द्धाराविधिश्च । ४४७ प्रथमं गच्छते होता यजमानसमन्वितः ॥ ब्रह्मक्षत्रविशः शूद्रास्तथा गावः प्रजाः पुनः । तथान्ये वर्णबाह्यास्तु चण्डालपरिवर्जिताः ॥ गच्छन्ति मुदिता हृष्टा हास्यतोषसमन्विताः । यस्त्वेवं कुरुते राजा पुरे ग्रामेऽथ पत्तने ॥ नश्यन्ति षेतयः सर्वा प्रजानां नन्दनं चिरम् । नाकाले म्रियते राजा पुत्रपौत्रैश्च वर्द्धते ॥ देवा भवन्ति सुप्रीतास्तथा वै मातरस्तथा । गोलोकं च लभेद्वत्स सर्वान् कामानवाप्नुयात् ॥ ईतयः प्रसिद्धाः । यथा— अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः । अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥ इति । इति गवोत्सर्गः । अथ वसोर्धारा । तत्र देवीपुराणे, विद्याधर उवाच । यथा सा सर्वगा देवी सर्वेषां च फलप्रदा । तथाहं श्रोतुमिच्छामि वसोर्द्धारां सविस्तराम् ॥ अगस्त्य उवाच । ब्रह्मणा या समाख्याता देवराजस्य पृच्छतः । विधिश्च पापहा श्रोतुः शृणुष्वावहितो मम ॥ वसोर्द्धारास्थिता देवी सर्वकामप्रदायिका । तथा ते कथयिष्यामि शृणु पुण्यविवृद्धये ॥ सर्वेषामेव देवानामुक्ता देवी मयोत्तमा ।