वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 444, कुल 490 में से
संदर्भ में पढ़ें४४८ वीरमित्रोदयस्य राजनीतिप्रकाशे विशेषेण तु वह्निस्था आयुरारोग्यदा मता ॥ विजयं भूमिलाभं च मानवानां प्रियं तथा । विद्यासौभाग्यपुत्रादि कुण्डस्था सम्प्रयच्छति ॥ तस्मान्नृपेण भूत्यर्थं वसोर्द्धाराश्रिता शिवा । पूजनीया यथाशक्त्या सर्वकामफलप्रदा ॥ रुद्रादित्या ग्रहा विष्णुर्ब्रह्मा यक्षाः सकिन्नराः । हुताशनमुखाः सर्वे दृष्टादृष्टफलप्रदाः ॥ गोदानं भूमिदानं च रत्नसर्पिस्तिलादि च । दानानि च महान्त्याहुस्तेषां धारा विशिष्यते ॥ विप्राणां कोटिकोटीनां भोजयित्वा तु यत्फलम् । लभते तदवाप्नोति धारां दत्त्वा हुताशने ॥ व्यतीपाते न सन्देहः स च सूक्ष्मः प्रकीर्तितः । अयनं विषुवच्चैव दिनच्छिद्रं तथैव च ॥ दुष्प्रापं दानहोमानां धारायां लभ्यते नृप । तस्मान्नृपेण वृद्ध्यर्थं दृष्टादृष्टजिगीषुणा ॥ वसोर्द्धारा प्रकर्त्तव्या सर्वकामसुखावहा । समां वा अर्द्धमर्द्धं वा ऋतुमासार्द्धवासरम् ॥ समाम् अब्दम् । कृत्वा विभवरूपेण शाश्वतं लभते फलम् । एकाहमपि यो देवीं कल्पयित्वा हुताशने ॥ पातयेत्सर्पिषो धारां स लभेदीप्सितं फलम् । देवीमातृसमीपस्थं शिवविष्णुसमीपगम् ॥ भानोः प्रजापतेर्वापि वसोर्धारागृहं भवेत् । चिरन्तनेषु सर्वेषु स्वयं वा संस्कृतेषु च ॥ पर्वतेषु च दिव्येषु नदीनां सङ्गमेषु च ।