भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 456, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 456

४६० वीरमित्रोदयस्य राजनीतिप्रकाशे पुष्कर उवाच । पूर्वोत्तरे तु दिग्भागे नगरात्सुमनोहरे । प्रागुदक्प्रवणे देशे शान्त्यगारं तु कारयेत् ॥ शुभमत्यन्तविस्तीर्णं नानावस्त्रसमन्वितम् । पुनर्वसुगते चन्द्रे तत्र यायान्नराधिपः ॥ पुरस्कृत्य महाभाग सांवत्सरपुरोहितौ । आभिषेचनिका मन्त्रा ये मयाभिहिताः पुरा ॥ देवादयस्तु तेषां वै स्थानं तत्र प्रकल्पयेत् । ते च मन्त्रा राज्याभिषेकप्रकरणे पठिताः । गन्धमण्डलकर्मुख्यैर्यथास्थानं पुरोहितः ॥ आवाहनं ततः कुर्यात्स्नातस्तत्र सुखोषितः । देवादीनां तु सर्वेषां ब्राह्मणैः सहितो द्विज ॥ आवाहितानां सर्वेषां गन्धमाल्यान्नसम्पदा । दैववित्पूजनं कुर्यात्तथा नृपपुरोहितौ ॥ एवं सम्पूजनं कृत्वा सोपवासास्तु ते त्रयः । स्वप्युश्च तां निशां तत्र सर्व एव समाहिताः ॥ ततो नैर्ऋतकं कर्म प्रदिशेत्तु पुरोहितः । नैर्ऋतकं कर्म, बलिदानादि । कृत्वा त्रिभागशेषायां रात्रौ कुर्यात्तु शान्तिकम् ॥ हुत्वा दशगुणं तत्र स्नापयेत्तं नराधिपम् । पूर्वमेव तथा स्नातं सिद्धार्थोत्सादितं तथा ॥ पूर्णेन घृतकुम्भेन मन्त्रेणानेन कालवित् । आज्यं तेजः समुद्दिष्टमाज्यं पापहरं स्मृतम् ॥ आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः । भौमान्तरिक्षद्दिव्यं वा यत्ते किल्बिषमागतम् ॥

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष) · पृष्ठ 456, कुल 490 में से · BharatKosha