वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 455, कुल 490 में से
संदर्भ में पढ़ेंशत्रुनाशनं कर्मान्तरम् । ४५९ अथापरं शत्रुनाशनं कर्म । विष्णुधर्मोत्तरे, राम उवाच । अग्न्याधेयमवाप्नोति शत्रुनाशमथापि वा । स्वेच्छया कर्मणा केन सदा यादोनृपात्मज ॥ शत्रुनाशकरं कर्म कथयस्व तथाऽपरम् । तदहं श्रोतुमिच्छामि तत्र श्रद्धा सदा मम ॥ पुष्कर उवाच । कृतोपवासो याम्यर्थे कृत्तिकासु सदैव तु । पूजयेद्वासुदेवं तु कुङ्कुमेन सुगन्धिना ॥ रक्तैश्च कुसुमैर्हृद्यैर्धूपं दद्याच्च गुग्गुलम् । घृतेन दीपं दद्याच्च रक्तवर्णं तथैव च ॥ निवेदनीयं देवाय तथा सर्वं निवेदयेत् । होतव्याश्च समिद्धेऽग्नौ तथैवासुरसर्षपाः । आयुधानि प्रदेयानि ब्राह्मणेभ्यस्तु दक्षिणा ॥ कर्मैतदुक्तं रिपुनाशकारि कार्यं सदा शत्रुगणप्रमाथि । कृत्वैतदग्र्यं रिपुनाशमाशु प्राप्नोति राजा न हि संशयोऽत्र॥ इति शत्रुनाशनं कर्मः । अथ शत्रुनाशिनी घृतकम्बलशान्तिः । तत्र विष्णुधर्मोत्तरे, राम उवाच । शान्तिमाचक्ष्व मां देव घृतकम्बलसंज्ञिताम् । कार्या या पार्थिवेन्द्राणां विजयाय पुरोधसा ॥