भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 454, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 454

४५८ वीरमित्रोदयस्य राजनीतिप्रकाशे अथ शत्रुनाशनं कृत्तिकास्नानम् । विष्णुधर्मोत्तरे, पुष्कर उवाच । कृतोपवासो याम्यर्क्षे सोपवासस्य भार्गव । पुरोधाः स्नपनं कुर्यात्कृत्तिकासु यथाविधि ॥ अकालमूलैः कलशैर्मृन्मयैरथ काञ्चनैः । उज्ज्वलैलक्षणैः पूर्णैस्तथा तीर्थोदकैः शुभैः । अग्निमन्थशिरीषाणां न्यग्रोधाश्वत्थयोरपि ॥ पत्रपूर्णैस्तथा युक्तैस्तिलैः कृष्णैर्द्विजोत्तम । वह्निं कुमारं शशिनं रुद्रं वरुणमेव च ॥ पूजयेत्कृत्तिकाश्चैव गन्धमाल्यान्नसम्पदा । पीतरक्तैस्तथा वर्णैर्घृतधूपैस्तथैव च ॥ दध्ना गव्येन लाजाभिरग्निमन्थेन चाप्यथ । कृसरोल्लोपिकाभिश्च अपूपैश्च पृथग्विधैः ॥ देवतानां यथोक्तानां प्रियङ्गुं जुहुयात्ततः । गर्दभाश्वमयूराणां लोमानि मनुजोत्तम ॥ अग्निमन्थगृहात् धूमं कृत्वा रुक्माङ्गदं मणिम् । धारयेद्दक्षिणां दद्याच्छक्त्या कनकमेव च ॥ श्वेतवासास्ततः पश्चात्पूजयेन्मधुसूदनम् । कर्मैतत्सर्वतः कृत्वा वह्नयाधानमथाप्नुयात् ॥ कर्मैतदुक्तं रिपुनाशकारि सर्वाग्निकर्मप्रसमृद्धिदं च । धन्यं यशस्यं च तथैव काम्यं नित्यं कृतं धर्मभृतां वरिष्ठ ॥ इति शत्रुनाशनं कृत्तिकास्नानम् ।