वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 453, कुल 490 में से
संदर्भ में पढ़ेंस्थानविशेषेण वसुधाराफलम् । ४५७ गिरौ धाराप्रदानेन ग्रहपीडा न जायते ॥ बहुवक्रगते देहे वत्सरं न भयं भवेत् । जन्मतारार्क्षपीडायां दत्ता धारा व्यपोहति ॥ जम्बूमार्गे सदापूजा धारापाते विशिष्यते । सर्वकामानवाप्नोति नर्मदायां महामुने । धारादानेन गङ्गायां कालिन्द्यां वा महाह्रदे ॥ दत्त्वा विधानविहितं न भयं जायते क्वचित् । शनिसूर्यकृतां पीडां गुरुभौमीं व्यपोहति ॥ यथापूजाविधानेन प्रतिसंवत्सरे स्थिता । पीडां निवारयेद्वत्स संवत्सरग्रहोद्भवाम् ॥ मन्त्रं जपेत्सङ्कथितं न भयं विद्यते क्वचित् । एकान्ते दुष्टरहिते पापजन्तुविवर्जिते ॥ धाराहोमश्च कर्त्तव्यो यथोक्तः श्रियमिच्छता । जिह्वायां पातयेद्धारां न द्रुतां न विलम्बिताम् ॥ सावधानेन मनसा मृत्युञ्जयनिपातिता । मन्त्रयोगाद्भवेत्सिद्धिर्दृष्टादृष्टप्रसाधिका ॥ ग्रहोद्भवां हरेत्पीडां त्रिविधामपि दुःस्थिताम् । ग्रहाश्च त्रिविधाः प्रोक्तास्तेषां मन्त्रा विधानतः ॥ अंशजा मूलमन्त्राश्च पीठपादगतास्तथा । होमकाले प्रयोक्तव्याः पूजाकाले तथैव च ॥ एवं सिद्धिमवाप्नोति इह स्वर्गापवर्गिकाम् । तावत्काले क्रियायोगाद्धारायां लभते मुने ॥ धारादानं प्रकर्त्तव्यं यत्र कुत्र घटादिभिः । तैर्मन्त्रैर्नित्यहोमे च पूर्वं च कथितो विधिः ॥ इति । इति देवीपुराणोक्तो वसोर्धाराविधिः । ५८