वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 452, कुल 490 में से
संदर्भ में पढ़ें४५६ वीरमित्रोदयस्थ राजनीतिप्रकाशे महत्याश्विनमासे तु अष्टमी नवमीषु च । कार्तिकीयां माघचैत्रे तु चित्रायां रोहिणीषु च । वैशाख्यां तु प्रदातव्या ज्यैष्ठयां ज्येष्ठस्य सत्तम ॥ आषाढे द्वादशी प्रोक्ता अष्टमी पूर्णिमा नभे । नभस्ये रोहिणी वत्स चतुर्थ्यां भौमवासरे ॥ सङ्क्रान्तिषु च सर्वासु गुरुसौरभवासु च । चन्द्रसूर्योपरागेषु प्रतिष्ठा यज्ञकर्मणि ॥ पुत्रोत्सवे प्रदातव्या जन्मपुष्पाभिषेचने । जन्मदिनाभिषेके पुष्पाभिषेके च । मार्गे व्रतनिबन्धे तु सुघोरे केतुदर्शने । ग्रहकृत्योपशमने धारा देया शुभावहा ॥ एवं यो वाहयेद्धारां शास्त्रदृष्टेन कर्मणा । तस्य भूः सिद्ध्यते सर्वा सनागा सहसागरा ॥ अश्वमेधसमं पुण्यं दिनहोमात्प्रजायते । वाजपेयं शतं रात्रावाग्निष्टोमशतं तथा ॥ आधयो व्याधयस्तस्य न भवन्ति कदाचन । आयुरारोग्यमैश्वर्यं तदन्ते च शिवो भवेत् ॥ इति । तथा, हिमवद्धेमकूटे च विन्ध्ये माहेन्द्रपर्वते । वैदिशे तु जयन्ते वा महासेने च भूभृति ॥ गोपागिरौ महापुण्ये चित्रकूटेऽथ यामुने । कालञ्जरेऽथ वा काश्यां प्रयागे देवपर्वते ॥ उज्जयिन्यां च यो धारां दापयेद्वा महेश्वरि । एतेषु पुण्यदेशेषु विषुवायनेसङ्क्रमे ॥ पुष्करे नैमिषे वत्स देया पञ्चमुखेक्षिते ।