वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 451, कुल 490 में से
संदर्भ में पढ़ेंवसोर्धाराया माहात्म्यम् । ४५५ संयतैः संयताहारैः सर्वशास्त्रार्थपारगैः ॥ जपहोमरतैर्भूप धारा देया तु तद्विधैः । पाखण्डविकलान् लुब्धान् धर्मापेतान् बहिष्कृतान् ॥ सर्वकालप्रवादांश्च न वदेन्नावलोकयेत् । मृत्युञ्जयमहामन्त्रं चतुर्थ्यन्तं जपेत्तथा ॥ भाग्यवान् नित्यहोमे तु अन्यथा विफलं भवेत् । सामान्या या भवेद्धारा तत्र जप्यं शतं शतम् ॥ प्रातर्मध्याह्नसन्ध्यासु सर्वकामसमृद्धये । वसुद्रव्यं घृतं वाज्यममृतं हविष्कामिकम् ॥ तस्य धारा सदा देया वसोर्धारा हि सा मता । वसुनापत्यकामेन दक्षेण च महात्मना ॥ मया च विष्णुना शक्र रुद्रेण च सहोमया । आत्मानं च स्वरूपेण धारायां तु प्रपातितम् ॥ देवी सान्निध्यमायाता सर्वकामप्रदायिका । तस्मात्त्वमपि राजेन्द्र वसोर्धारां प्रदापय ॥ नातः परतरं पुण्यं विद्यते नृपसत्तम । वसोर्धाराप्रदानस्य एकाहमपि यद्भवेत् ॥ नृपेण पुष्टिकामेन परराज्यजिगीषुणा । देया धारा सदा वत्स रिपुनाशाय विद्धि ताम् ॥ विच्छेदो नित्यहोमस्य न कार्यस्तु कदाचन । महादोषमवाप्नोति यः कुर्याद्विमुखान् सुरान् ॥ द्रव्याभावे घृताभावे नृप तस्करजं भयम् । यदि नो वहते धारा तदा छिद्रं न विद्यते ॥ होमं कृत्वा क्षमापेत देवं देवीं नृपोत्तम । पुनः प्राप्ते भवेद्वत्स प्रतिष्ठा विधिचोदिता ॥