वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
वसोर्धाराया माहात्म्यम् । ४५५ संयतैः संयताहारैः सर्वशास्त्रार्थपारगैः ॥ जपहोमरतैर्भूप धारा देया तु तद्विधैः । पाखण्डविकलान् लुब्धान् धर्मापेतान् बहिष्कृतान् ॥ सर्वकालप्रवादांश्च न वदेन्नावलोकयेत् । मृत्युञ्जयमहामन्त्रं चतुर्थ्यन्तं जपेत्तथा ॥ भाग्यवान् नित्यहोमे तु अन्यथा विफलं भवेत् । सामान्या या भवेद्धारा तत्र जप्यं शतं शतम् ॥ प्रातर्मध्याह्नसन्ध्यासु सर्वकामसमृद्धये । वसुद्रव्यं घृतं वाज्यममृतं हविष्कामिकम् ॥ तस्य धारा सदा देया वसोर्धारा हि सा मता । वसुनापत्यकामेन दक्षेण च महात्मना ॥ मया च विष्णुना शक्र रुद्रेण च सहोमया । आत्मानं च स्वरूपेण धारायां तु प्रपातितम् ॥ देवी सान्निध्यमायाता सर्वकामप्रदायिका । तस्मात्त्वमपि राजेन्द्र वसोर्धारां प्रदापय ॥ नातः परतरं पुण्यं विद्यते नृपसत्तम । वसोर्धाराप्रदानस्य एकाहमपि यद्भवेत् ॥ नृपेण पुष्टिकामेन परराज्यजिगीषुणा । देया धारा सदा वत्स रिपुनाशाय विद्धि ताम् ॥ विच्छेदो नित्यहोमस्य न कार्यस्तु कदाचन । महादोषमवाप्नोति यः कुर्याद्विमुखान् सुरान् ॥ द्रव्याभावे घृताभावे नृप तस्करजं भयम् । यदि नो वहते धारा तदा छिद्रं न विद्यते ॥ होमं कृत्वा क्षमापेत देवं देवीं नृपोत्तम । पुनः प्राप्ते भवेद्वत्स प्रतिष्ठा विधिचोदिता ॥
४५६ वीरमित्रोदयस्थ राजनीतिप्रकाशे महत्याश्विनमासे तु अष्टमी नवमीषु च । कार्तिकीयां माघचैत्रे तु चित्रायां रोहिणीषु च । वैशाख्यां तु प्रदातव्या ज्यैष्ठयां ज्येष्ठस्य सत्तम ॥ आषाढे द्वादशी प्रोक्ता अष्टमी पूर्णिमा नभे । नभस्ये रोहिणी वत्स चतुर्थ्यां भौमवासरे ॥ सङ्क्रान्तिषु च सर्वासु गुरुसौरभवासु च । चन्द्रसूर्योपरागेषु प्रतिष्ठा यज्ञकर्मणि ॥ पुत्रोत्सवे प्रदातव्या जन्मपुष्पाभिषेचने । जन्मदिनाभिषेके पुष्पाभिषेके च । मार्गे व्रतनिबन्धे तु सुघोरे केतुदर्शने । ग्रहकृत्योपशमने धारा देया शुभावहा ॥ एवं यो वाहयेद्धारां शास्त्रदृष्टेन कर्मणा । तस्य भूः सिद्ध्यते सर्वा सनागा सहसागरा ॥ अश्वमेधसमं पुण्यं दिनहोमात्प्रजायते । वाजपेयं शतं रात्रावाग्निष्टोमशतं तथा ॥ आधयो व्याधयस्तस्य न भवन्ति कदाचन । आयुरारोग्यमैश्वर्यं तदन्ते च शिवो भवेत् ॥ इति । तथा, हिमवद्धेमकूटे च विन्ध्ये माहेन्द्रपर्वते । वैदिशे तु जयन्ते वा महासेने च भूभृति ॥ गोपागिरौ महापुण्ये चित्रकूटेऽथ यामुने । कालञ्जरेऽथ वा काश्यां प्रयागे देवपर्वते ॥ उज्जयिन्यां च यो धारां दापयेद्वा महेश्वरि । एतेषु पुण्यदेशेषु विषुवायनेसङ्क्रमे ॥ पुष्करे नैमिषे वत्स देया पञ्चमुखेक्षिते ।
स्थानविशेषेण वसुधाराफलम् । ४५७ गिरौ धाराप्रदानेन ग्रहपीडा न जायते ॥ बहुवक्रगते देहे वत्सरं न भयं भवेत् । जन्मतारार्क्षपीडायां दत्ता धारा व्यपोहति ॥ जम्बूमार्गे सदापूजा धारापाते विशिष्यते । सर्वकामानवाप्नोति नर्मदायां महामुने । धारादानेन गङ्गायां कालिन्द्यां वा महाह्रदे ॥ दत्त्वा विधानविहितं न भयं जायते क्वचित् । शनिसूर्यकृतां पीडां गुरुभौमीं व्यपोहति ॥ यथापूजाविधानेन प्रतिसंवत्सरे स्थिता । पीडां निवारयेद्वत्स संवत्सरग्रहोद्भवाम् ॥ मन्त्रं जपेत्सङ्कथितं न भयं विद्यते क्वचित् । एकान्ते दुष्टरहिते पापजन्तुविवर्जिते ॥ धाराहोमश्च कर्त्तव्यो यथोक्तः श्रियमिच्छता । जिह्वायां पातयेद्धारां न द्रुतां न विलम्बिताम् ॥ सावधानेन मनसा मृत्युञ्जयनिपातिता । मन्त्रयोगाद्भवेत्सिद्धिर्दृष्टादृष्टप्रसाधिका ॥ ग्रहोद्भवां हरेत्पीडां त्रिविधामपि दुःस्थिताम् । ग्रहाश्च त्रिविधाः प्रोक्तास्तेषां मन्त्रा विधानतः ॥ अंशजा मूलमन्त्राश्च पीठपादगतास्तथा । होमकाले प्रयोक्तव्याः पूजाकाले तथैव च ॥ एवं सिद्धिमवाप्नोति इह स्वर्गापवर्गिकाम् । तावत्काले क्रियायोगाद्धारायां लभते मुने ॥ धारादानं प्रकर्त्तव्यं यत्र कुत्र घटादिभिः । तैर्मन्त्रैर्नित्यहोमे च पूर्वं च कथितो विधिः ॥ इति । इति देवीपुराणोक्तो वसोर्धाराविधिः । ५८
४५८ वीरमित्रोदयस्य राजनीतिप्रकाशे अथ शत्रुनाशनं कृत्तिकास्नानम् । विष्णुधर्मोत्तरे, पुष्कर उवाच । कृतोपवासो याम्यर्क्षे सोपवासस्य भार्गव । पुरोधाः स्नपनं कुर्यात्कृत्तिकासु यथाविधि ॥ अकालमूलैः कलशैर्मृन्मयैरथ काञ्चनैः । उज्ज्वलैलक्षणैः पूर्णैस्तथा तीर्थोदकैः शुभैः । अग्निमन्थशिरीषाणां न्यग्रोधाश्वत्थयोरपि ॥ पत्रपूर्णैस्तथा युक्तैस्तिलैः कृष्णैर्द्विजोत्तम । वह्निं कुमारं शशिनं रुद्रं वरुणमेव च ॥ पूजयेत्कृत्तिकाश्चैव गन्धमाल्यान्नसम्पदा । पीतरक्तैस्तथा वर्णैर्घृतधूपैस्तथैव च ॥ दध्ना गव्येन लाजाभिरग्निमन्थेन चाप्यथ । कृसरोल्लोपिकाभिश्च अपूपैश्च पृथग्विधैः ॥ देवतानां यथोक्तानां प्रियङ्गुं जुहुयात्ततः । गर्दभाश्वमयूराणां लोमानि मनुजोत्तम ॥ अग्निमन्थगृहात् धूमं कृत्वा रुक्माङ्गदं मणिम् । धारयेद्दक्षिणां दद्याच्छक्त्या कनकमेव च ॥ श्वेतवासास्ततः पश्चात्पूजयेन्मधुसूदनम् । कर्मैतत्सर्वतः कृत्वा वह्नयाधानमथाप्नुयात् ॥ कर्मैतदुक्तं रिपुनाशकारि सर्वाग्निकर्मप्रसमृद्धिदं च । धन्यं यशस्यं च तथैव काम्यं नित्यं कृतं धर्मभृतां वरिष्ठ ॥ इति शत्रुनाशनं कृत्तिकास्नानम् ।
शत्रुनाशनं कर्मान्तरम् । ४५९ अथापरं शत्रुनाशनं कर्म । विष्णुधर्मोत्तरे, राम उवाच । अग्न्याधेयमवाप्नोति शत्रुनाशमथापि वा । स्वेच्छया कर्मणा केन सदा यादोनृपात्मज ॥ शत्रुनाशकरं कर्म कथयस्व तथाऽपरम् । तदहं श्रोतुमिच्छामि तत्र श्रद्धा सदा मम ॥ पुष्कर उवाच । कृतोपवासो याम्यर्थे कृत्तिकासु सदैव तु । पूजयेद्वासुदेवं तु कुङ्कुमेन सुगन्धिना ॥ रक्तैश्च कुसुमैर्हृद्यैर्धूपं दद्याच्च गुग्गुलम् । घृतेन दीपं दद्याच्च रक्तवर्णं तथैव च ॥ निवेदनीयं देवाय तथा सर्वं निवेदयेत् । होतव्याश्च समिद्धेऽग्नौ तथैवासुरसर्षपाः । आयुधानि प्रदेयानि ब्राह्मणेभ्यस्तु दक्षिणा ॥ कर्मैतदुक्तं रिपुनाशकारि कार्यं सदा शत्रुगणप्रमाथि । कृत्वैतदग्र्यं रिपुनाशमाशु प्राप्नोति राजा न हि संशयोऽत्र॥ इति शत्रुनाशनं कर्मः । अथ शत्रुनाशिनी घृतकम्बलशान्तिः । तत्र विष्णुधर्मोत्तरे, राम उवाच । शान्तिमाचक्ष्व मां देव घृतकम्बलसंज्ञिताम् । कार्या या पार्थिवेन्द्राणां विजयाय पुरोधसा ॥
४६० वीरमित्रोदयस्य राजनीतिप्रकाशे पुष्कर उवाच । पूर्वोत्तरे तु दिग्भागे नगरात्सुमनोहरे । प्रागुदक्प्रवणे देशे शान्त्यगारं तु कारयेत् ॥ शुभमत्यन्तविस्तीर्णं नानावस्त्रसमन्वितम् । पुनर्वसुगते चन्द्रे तत्र यायान्नराधिपः ॥ पुरस्कृत्य महाभाग सांवत्सरपुरोहितौ । आभिषेचनिका मन्त्रा ये मयाभिहिताः पुरा ॥ देवादयस्तु तेषां वै स्थानं तत्र प्रकल्पयेत् । ते च मन्त्रा राज्याभिषेकप्रकरणे पठिताः । गन्धमण्डलकर्मुख्यैर्यथास्थानं पुरोहितः ॥ आवाहनं ततः कुर्यात्स्नातस्तत्र सुखोषितः । देवादीनां तु सर्वेषां ब्राह्मणैः सहितो द्विज ॥ आवाहितानां सर्वेषां गन्धमाल्यान्नसम्पदा । दैववित्पूजनं कुर्यात्तथा नृपपुरोहितौ ॥ एवं सम्पूजनं कृत्वा सोपवासास्तु ते त्रयः । स्वप्युश्च तां निशां तत्र सर्व एव समाहिताः ॥ ततो नैर्ऋतकं कर्म प्रदिशेत्तु पुरोहितः । नैर्ऋतकं कर्म, बलिदानादि । कृत्वा त्रिभागशेषायां रात्रौ कुर्यात्तु शान्तिकम् ॥ हुत्वा दशगुणं तत्र स्नापयेत्तं नराधिपम् । पूर्वमेव तथा स्नातं सिद्धार्थोत्सादितं तथा ॥ पूर्णेन घृतकुम्भेन मन्त्रेणानेन कालवित् । आज्यं तेजः समुद्दिष्टमाज्यं पापहरं स्मृतम् ॥ आज्यं सुराणामाहार आज्ये लोकाः प्रतिष्ठिताः । भौमान्तरिक्षद्दिव्यं वा यत्ते किल्बिषमागतम् ॥
विष्णुधर्मोत्तरोक्ता घृतकम्बलशान्तिः । ४६१ सर्वं तदाज्यसंस्पर्शात्प्रणाशमुपगच्छतु । ततो विरूक्षितं स्नातं स्नानवेद्यां नराधिपम् ॥ गच्छेतां तु पुरस्कृत्य सांवत्सरपुरोहितौ । स्नानवेदी प्रकर्तव्या लाजाकुसुममण्डिता ॥ चतुर्भिः पूर्णकुम्भैस्तु विदिक्षु ह्युपशोभिता । चत्वारि तस्याश्चर्माणि प्राग्ग्रीवाणि समास्तरेत् ॥ वृषस्य द्वीपिनश्चैव सिंहशार्दूलयोस्तथा । भद्रासनं न्यसेद्राम तेषामुपरि चर्मणाम् ॥ स्वासीनं नृपतिं तत्र वस्त्रैराच्छादयेन्नवैः । कार्पासिकैस्ततः पश्चादाविकैः कृमिजैस्ततः ॥ ततस्तु सर्पिषः कुम्भैः पूर्णैस्तमभिषेचयेत् । कुम्भाष्टकं तु कर्त्तव्यमष्टाविंशतिरेव वा ॥ अथ वाष्टशतं राम वृद्धिरेषा गुणोत्तरा । ततोऽपनीय वस्त्राणि तस्यां वेद्यां पुरोहितः ॥ शूलेन मृन्मयं भिन्द्याच्छत्रुं क्रोधसमन्वितः । राज्ञस्तु कलशं दद्यात्स्वयं सांवत्सरस्ततः ॥ आभिषेचनमन्त्रेण स्वर्चितं कल्पितं दृढम् । ज्योतिष्मतीं त्रायमाणामभयामपराजिताम् ॥ जीवां विश्वेश्वरीं पाठां समङ्गामभयं तथा । सहां च सहदेवीं च पूर्णकोशां शतावरीम् ॥ अरिष्टिकां शिवां भद्रां कलशं तत्र विन्यसेत् । ब्राह्मीं क्षेमामजां चैव सर्वबीजानि काञ्चनम् ॥ मङ्गल्याश्च यथालाभं सर्वौषध्यो रसस्तथा । रत्नानि सर्वगन्धाश्च बिल्वं च सविकङ्कतम् ॥ एवं स्नातो घृते दृष्ट्वा वदनं दर्पणं तथा ।
४६२ वीरमित्रोदयस्य राजनीतिप्रकाशे मङ्गलालम्भनं कृत्वा धौतवासाः समाहितः ॥ आयुधाभ्यर्चनं कार्यं वाहनाभ्यर्चनं तथा ॥ राजचिह्णार्चनं कृत्वा ह्यलङ्कृत्य स्वकां तनुम् । अनुलेपनमाद्याद्गन्धद्वारेतिमन्त्रितम् ॥ शुभं चन्दनमादद्याच्छ्रीसूक्तेनाभिमन्त्रितम् । श्रियं धातर्मयि धेहि मन्त्रः सुमनसां भवेत् ॥ रायस्पोषेति च तथा मन्त्रोऽलङ्करणे स्मृतः । ततोऽनुलिप्तः सुरभिस्स्रग्वी रुचिरभूषणः ॥ केशवाभ्यर्चनं कृत्वा वह्निस्थानं ततो व्रजेत् । वन्हेरुत्तराद्दिग्भागे तथा प्रागुक्तचर्मणाम् ॥ सिंहासनं न्यसेत्पृष्ठे परार्द्ध्यास्तरणैर्युतम् । ततस्तु राम चर्माणि प्राग्ग्रीवाणि तु विन्यसेत् ॥ वृषस्य वृषदंशस्य करिणः पृषतस्य च । तेषामुपरि सिंहस्य व्याघ्रस्य च ततः परम् ॥ ध्रुवा द्यौरितिमन्त्रेण नृपं तत्रोपवेशयेत् । दर्भपाणिस्ततो राजा तथैव च पुरोहितः ॥ तयोर्हस्तगतावग्रे दर्भौ सङ्ग्रन्थयेद्द्विजः । ततः पुरोधा जुहुयाद्ब्राह्मैर्मधुघृतं शुचिः ॥ रौद्रवैष्णववायव्यशाक्रसौम्यैस्सवारुणैः । बार्हस्पत्यैस्ततः कुर्यात्तन्त्रमुत्तरसंज्ञितम् ॥ दैवज्ञः प्रयतः कुर्याद्देवतानां विसर्जनम् । यान्तु देवगणाः सर्वे सानुगास्सपरिच्छदाः ॥ १ अत्र—"अभ्यर्चनं ततः कुर्याद्देवादीनां पृथक्पृथक् । तेषामेव ततो वह्नौ चतुर्थ्यन्तैस्तु नामभिः ॥ ओङ्कारपूतं जुहुयाद्घृतं बहु पुरोहितः ।” इत्यधिकं मुद्रितविष्णुधर्मोत्तरे वर्तते ।
आथर्वणपरिशिष्टोक्ता घृतकम्बलशान्तिः। ४६३ आदाय पार्थिवात्पूजां पुनरागमनाय च । ततश्च पूजयेद्राजा सांवत्सरपुरोहितौ ॥ घनेन ब्राह्मणानां च ततो दद्यात्तु दक्षिणाम् । मङ्गलालम्भनं कृत्वा खड्गपाणिर्गृहान्व्रजेत् ॥ शान्तिघोषेण महता राजा कुञ्जरगस्ततः । शान्तिर्मया तेऽभिहिता नृवीर धन्या यशस्या रिपुनाशिनी च । सुखावहा राष्ट्रविवृद्धिकर्त्री कार्या नृपैर्धर्मविवृद्धिदा च ॥ इति । इति विष्णुधर्मोत्तरे घृतकम्बलशान्तिः । अथाथर्वणपरिशिष्टोक्तो घृतकम्बलः । ततो ज्येष्ठं घृतकम्बलं ब्रह्मणः पुत्रमकरोत्त्तस्य ह वा एतस्य घृतकम्बलस्य सावित्रीगणशरीरस्य शान्तातीयः शिरः त्रिषष्ठीयं मुखं रुद्रगणौ चक्षुषी घृतलिङ्ग आस्यं नैऋन्तो जिह्वा दन्तौष्ठावभ- यापराजितौ कृत्यादूषणवातनौ श्रोत्रे शर्मवर्मस्वस्त्ययनौ बाहू मातृनामावास्तोष्पत्यौ पादौ पायुश्च भैषष्ठंन्यायः (?) प्राणा- पानान्विति मीमांसन्त इत्येष ह वै ज्येष्ठो घृतकम्बलो ब्रह्मणः पुत्रोऽपराजितगणेनेष्टेन्द्रोऽसुरानजयद्राज्यमलक्ष्मीमरातिं दुष्ट- स्वमदुर्भूर्तान्यजयद्यथा चैवंविद्वान् घृतकम्बलं कुरुते सर्व- कामानाप्नोति सर्वव्याधिरहितो भवतीति ब्रह्मलोकमवाप्नो- तीति ब्राह्मणम् । यदा सर्वमिदं व्याप्तमसुरैर्नावशेषितम् । स्थातुं देवाः पराभूतास्तेऽथर्वाणमुपागताः ॥ कर्म स्वकं कुरुष्व त्वं यद्भृग्वङ्गिरसोर्म्मतम् । असुराणां वधार्थायेत्युक्तः कर्त्ताऽथ सोऽभवत् ॥ परचक्रोपसृष्टस्य राज्ञो विजयमिच्छतः । प्रतिराष्ट्रस्य वा भूयः श्रीकामस्येच्छतः श्रियम् ॥
४६४ वीरमित्रोदयस्य राजनीतिप्रकाशे प्रादुर्भावेऽद्भुतानां तु ग्रहाणां विग्रहे तथा । शङ्कमानोऽभिचाराद्वा कारयेद्घृतकम्बलम् ॥ घृतमात्रा तु विज्ञेया मागधप्रस्थसम्मिता । शतानि पञ्च द्रोणानां पलैकशतमेव च ॥ घृतप्रमाणं वक्ष्यामि माषकं पञ्च कृष्णलः । माषकानि चतुःषष्टिः पलमेकं विधीयते ॥ द्वात्रिंशत्पलिकं प्रस्थं मागधैः परिकीर्त्तितम् । आढकं तु चतुःप्रस्थञ्चतुर्भिर्द्रोणमाढकैः ॥ द्रोणप्रमाणं विज्ञयं ब्रह्मणा निर्मितं पुरा । द्वादशाभ्यधिकैर्नित्यं पलानां पञ्चभिः शतैः ॥ घृतं द्रोणशतं वाथ षष्टिद्रोणावरं तथा । यथाशक्ति प्रयुञ्जीत घृतं कृत्वा तु भागशः ॥ चतुर्भागोऽभिषेकाय चतुर्भागस्तु हूयते । भागो देयः सदस्येभ्यः कर्त्ता भागेन युज्यते ॥ आविकं कम्बलं पूर्णं वासोऽर्धमुपकल्पितम् । प्रावृत्य स्नापयेदेनमित्युवाच बृहस्पतिः ॥ न राक्षसा न गन्धर्वा न पिशाचा न चासुराः । क्रूराः पुरुषधर्मज्ञा न हिंसन्ति घृतार्चितम् ॥ न हिंसन्ति घृतार्चितमिति । इत्याथर्वणपरिशिष्टोक्तो घृतकम्बलः । अथ प्रकीर्णकम् । तत्र नानास्मृतिपुराणादिषूक्ता राज्ञो धर्मा निरूपिताः । अथेदानीं तस्यावश्यं श्रोतव्यत्वेन काचित्काचिद्राजनीतिर्निरू- प्यते । तत्र—
· प्रकीर्णके महाभारतीथविदुरोक्तनीतयः । ४६५ महाभारते, सञ्जयो विदुर प्राप्तो गर्हयित्वा च मां गतः । अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ॥ तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया । तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ॥ जाग्रतो दह्यमानस्य श्रेयो यदनुपश्यसि । तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ॥ यतः प्राप्तः सञ्जयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः । सर्वेन्द्रियाण्यप्रकृतिं गतानि किंवक्ष्यतीत्येव हि मेऽद्य चिन्ता ॥ इतिधृतराष्ट्रप्रश्ने विदुरवाक्यम्— अभियुक्तं बलवता दुर्बलं हीनसाधनम् । हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥ कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप । कच्चिन्न परवित्तेषु गृध्यन्न परितप्यसे ॥ इति विदुरप्रश्ने धृतराष्ट्रवाक्यम्— श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः । अस्मिन् राजर्षिवंशे हि त्वमेकः प्राज्ञसम्मतः ॥ ततश्च विदुरस्योत्तरवाक्यम्— निषेवते प्रशस्तानि निन्दितानि न सेवते । अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम् ॥ क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भोऽमान्यमानिता । यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ क्रोधः परद्वेषः । हर्षः सुखम् । तत्कार्यं मुखादिविकारो वा । दर्प अन्तःसारविशेषः । ह्रीस्तम्भो निर्लज्जता । अमा- न्यमानिता, अमान्यानां मानयितुमयोग्यानां सम्मानकरणम् । ५९
४६६ वीरमित्रोदयस्य राजनीतिप्रकाशे यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे । कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥ यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः । समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥ यस्य सञ्चारिणी प्रज्ञा धर्मार्थावनुवर्तते । कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥ सञ्चारिणी, परोक्तस्य युक्तिसिद्धस्यार्थस्य श्रवणानन्तरं स्वमात्रबुद्धार्थग्रहरहिता । संसारिणीतिपाठे सम्यक्प्रसरणशी- ला । कामादर्थं वृणीत इति । कामापेक्षया धर्मसाधनत्वेनार्थस्य प्राधान्यमनुसृत्यार्थहान्या यः कामं न सेवत इतिभावः । यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते । न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥ क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थं भजते च कामान्। नासम्पृष्टो ह्युपयुङ्क्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य ॥ असम्पृष्टः परार्थे नोपयुङ्क्ते, नोपक्रमते । नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥ निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः । अबन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते ॥ नान्तर्वसति कर्मण इति । कर्मणः अन्तः कर्मणो मध्ये न वसांते नोपरमत इत्यर्थः । आर्यकर्माणि रज्यन्ते भूतिकर्माणि कुर्वते । हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥ न हृष्यत्यात्मसम्माने नावमानेन तप्यते । गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ॥
प्रकीर्णके महाभारतीयाविदुरोक्तनीतयः । ४६७ तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् । उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ॥ प्रवृत्तवाक् चित्रकथ ऊहवान् प्रतिभानवान् । आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते ॥ प्रतिभानवान् धृष्टः । यद्वा— प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता । तद्वान् । श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा । असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ॥ तथा, अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव च । विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ॥ असमुन्नद्धः, गर्वरहितः । एवमुपादेयत्वेन पण्डितलक्षणा- न्यभिधाय हेयत्वेन मूढलक्षणान्यपि तत्रैवोक्तानि । अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः । अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति । मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥ अकामान् कामयति यः कामयानान् परित्यजेत् । बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ संसारयति कृत्यानि सर्वत्र विचिकित्सते । चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ कृत्यानि कार्याणि । संसारयति आरभते । सर्वत्र, तेषु कार्येषु । विचिकित्सते, इदं मदिष्टसाधनं भवति न वा, इदं म- च्छक्यं भवति न वेत्यादिसन्देहवान् भवति ।
४६८ वीरमित्रोदयस्य राजनीतिप्रकाशे श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति । सुहृन्मित्रं न भजते तमाहुर्मूढचेतसम् ॥ अनाहूतः प्रविशति अपृष्टो बहु भाषते । अविश्वस्ते विश्वसिति मूढचेता नराधमः ॥ परं क्षिपति दोषेण वर्त्तमानः स्वयं तथा । यश्च क्रुद्ध्यत्यनीशानः स च मूढतमो नरः ॥ स्वयं तथा वर्त्तमानः, दोषवान् । आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम् । अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥ नैष्कर्म्यात् कर्माकरणात् । अशिष्यं शास्ति यो राजन् यश्च शून्यमुपासते । कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥ कदर्यं, धने सत्यपि दानभोगरहितम् । तथा, एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् । योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥ सम्पन्नं, पक्कं मिष्टपकम् । एकः पापानि कुरुते फलं भुङ्क्ते महाजनः । भोक्तारो विप्रमुच्यन्ते कर्त्ता दोषेण लिप्यते ॥ महान् बहुतरो जनः परिवारा यस्य स महाजनः । एकं हन्यान्न वा हन्यादिषुर्युक्तो धनुष्मता । बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु । पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव ॥ एकया, बुद्ध्या दण्डनीत्या वा । द्वे, कार्याकार्ये । त्रीन्,
प्रकीर्णके महाभारतविदुरोक्तनीतयः । ४६१ मित्रोदासीनशत्रून् । चतुर्भिः, सामदानदण्डभेदैरुपायैः । पञ्च, पञ्च ज्ञानेन्द्रियाणि च पञ्च कर्मेन्द्रियाणि च । षट्, सन्धिवि- ग्रहयानासनद्वैधीभावसंश्रयाख्यान् षड्गुणान् । सप्त— स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् । महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ इतिव्यसनानि । एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते । सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविप्लवः ॥ एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ एकमेवाद्वितीयं तद्यद्राजन्नावबुद्ध्यसे । सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ एकमेव सत्यं सत्यवचनं स्वर्गस्य सोपानम् । एकः क्षमावतां दोषो द्वितीयो नोपपद्यते । यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं धनम् । अक्षमावान् परं दोषैरात्मानं चैव योजयेत् ॥ एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा । विद्यैका परमा तृप्तिरहिंसैका सुखावहा ॥ द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव । राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ ब्राह्मणं, ब्रह्म नयतीति ब्राह्मणः, णीञ्प्रापण इत्यस्मात् । ब्रह्मज्ञः परिव्राट् तस्य परिभ्रमणस्योक्तत्वात् । द्वे कर्मणी नरः कुर्वन्नस्मिंल्लोके विरोचते । अब्रुवन् परुषं किञ्चिदसतोऽनर्चयंस्तथा ॥
४७० वीरमित्रोदयस्य राजनीतिप्रकाशे द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ । स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ॥ द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषिणौ । यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ द्वाविमौ न विराजते विपरीतेन कर्मणा । गृहस्थश्च निरारम्भः कार्यवांश्चैव भिक्षुकः ॥ द्वाविमौ पुरुषौ राजन् स्वर्गस्योपरि तिष्ठतः । प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ । अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥ द्वावम्भसि विनिक्षेप्यौ गाढं बद्ध्वा गले शिलाम् । धनिनं चाप्रदातारं दरिद्रं चातपस्विनम् ॥ त्रयोपाया मनुष्याणां श्रूयन्ते भरतर्षभ । कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ॥ त्रयोपाया इति छान्दसः सन्धिः । त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः । नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ॥ त्रय एवाधना राजन् भार्या दासस्तथा सुतः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ हरणं च परस्वानां परदाराभिमर्षणम् । सुहृदश्च परित्यागस्त्रयो दोषा भयप्रदाः ॥ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः । कामः क्रोधस्तथा लोभस्तस्मादेतत्रयं त्यजेत् ॥ भक्तं च भजमानं च तवास्मीति च वादिनम् । त्रीनेतान् शरणं प्राप्तान् विषमेऽपि न सन्त्यजेत् ॥
प्रकीर्णके महाभारतीयदिदुरोक्तनीतयः । ४७१ वरप्रदानं राज्यं च पुत्रजन्म च भारत । शत्रोश्च मोक्षणं कृच्छ्रात्त्रीणि चैकं च तत्समम् ॥ चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात् । अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्न दीर्घसूत्रैरलसैश्चारणैश्च ॥ चत्वारि ते तात गृहे वसन्तु श्रेयोऽभिजुष्टस्य गृहस्थधर्मे । वृद्धज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥ चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः । पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे ॥ सद्यस्कानि, सद्यःफलानि । देवतानां च सङ्कल्पमनुभावं च धीमताम् । विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥ सङ्कल्पं चिकीर्षितम् । पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः । पिता माताग्निर्रात्मा च गुरुश्च भरतर्षभ ॥ पञ्चैव पूजयंल्लोके यशः प्राप्नोति केवलम् । देवान् पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥ पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि । मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥ पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् । ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ॥ दृतेः चर्मपुटकस्य । षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता ॥ षडिमान् पुरुषो जह्याद्भिन्नां नावमिवार्णवे । अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥
४७२ वीरमित्रोदयस्य राजनीतिप्रकाशे अरक्षितारं राजानं भार्या चाप्रियवादिनीम् । ग्रामकामं च गोपालं वनकामं च नापितम् ॥ षडेव तु गुणाः पुंसा न हातव्याः कदाचन । सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥ षडिमानि विनश्यन्ति मुहूर्त्तानवेक्षणात् । गावः सेवा कृषिर्भार्या विद्या वृषलसङ्गतिः ॥ षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् । आचार्यं शिक्षिताः शिष्याः कृतकृत्या नरेश्वरम् ॥ नारीं विगतकामाश्च कृतार्थाश्च प्रयोजकम् । नावं निस्तीर्णकान्तारा आतुराश्च चिकित्सकम् ॥ निस्तीर्णकान्ताराः, निस्तीर्णदुर्गमजलमार्गाः । आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह सम्प्रयोगः । स्वप्रत्यया वृत्तिरभीतवासः षड्जीवलोकस्य सुखानि राजन् ॥ स्वप्रत्यया, स्वाधीना । "प्रत्ययोऽधीनशपथज्ञानविश्वासहे- तुषु"इति कोषः । वृत्तिः जीविका "वृत्तिर्वर्त्तनजीवने"इत्यमरः । ईर्ष्या घृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः । परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥ अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च। वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि तात॥ षण्णामात्मनि नित्यानामैश्वर्यमधिगच्छति । न स पापैः कुतोऽनर्थैर्युज्येत विजितेन्द्रियः ॥ षण्णाम्, इन्द्रियाणाम् । ऐश्वर्यं, वशित्वम् षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते । चौराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ॥ प्रमदाः काममानेषु यजमानेषु याजकाः ।
प्रकीर्णके महाभारतीयाविदुरोक्तनीतयः । ४७३ राजा विवदमानेषु नित्यं मूर्खेषु पण्डितः ॥ सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः । प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः ॥ स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् । महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः । ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणैश्च विरुद्ध्यते ॥ ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति । रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ नैतान् स्मरति कृत्येषु याचितश्चाभ्यसूयते । एतान्दोषान्नरः प्राज्ञो बुध्येद्बुद्ध्वा विसर्जयेत् ॥ अष्टाविमानि हर्षस्य नवनीतानि भारत । वर्त्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ॥ समागमश्च सखिभिर्महांश्चैव धनागमः । पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने ॥ समये च प्रियालापः स्वयूथ्येषु समुन्नतिः । अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥ समये हर्षादिसमये । अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च । पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥ नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् । क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेदः स परः कविः ॥ नवद्वारमिति । चक्षुःश्रोत्रनासामुखपायूपस्थरूपनवद्वारम् । त्रिस्थूणं, त्रीणि सत्त्वरजस्तमांसि वातपित्तकफा वा स्थूणा आधारस्तम्भा यस्य तत् । पञ्चसाक्षिकं, पञ्च ज्ञानेन्द्रियाणि ६०
४७४ वीरमित्रोदयस्य राजनीतिप्रकाशे साक्षिणो गृह्यमाणविषयनिवेदयितारो यत्र तत्तादृशम् । क्षे- त्रज्ञाधिष्ठितं, क्षेत्रं शरीरं जानाति आत्मत्वेन बुध्यते स क्षेत्रज्ञो जीवः तदधिष्ठितम् । परः कविः, उत्कृष्टः पण्डितः । दशधर्मं न जानन्ति धृतराष्ट्र निबोध तान् । मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥ त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश । तस्मादेतेषु सर्वेषु न प्रसज्जेत पण्डितः ॥ मत्तः, मद्यपानादिनाऽनवहितः । प्रमत्तः, असावधानः । उन्मत्तः, वातरोगादिमान् । श्रान्तः, अध्वगमनभारवहनादिना परिश्रान्तः । तथा, यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनानि । विशेषविच्छ्रुतवान् क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम् ॥ जानाति विश्वासयितुं मनुष्यान्विज्ञातदोषेषु दधाति दण्डम् । जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा ॥ मात्रां, दण्डपरिमाणम् । कस्मिन्नपराधे कियान् दण्डः क- र्त्तव्य इत्यादिकम् । सुदुर्बलं नावजानाति कञ्चिद्युक्तो रिपुं सेवते बुद्धिपूर्वम् । न विग्रहं रोचयते बलिष्ठैः काले च यो विक्रमते स धीरः॥ युक्तः, युक्तिमान् । युक्तिश्च स्वसंरक्षणपूर्वकपरनिग्रहानुकू- लो यत्नः । प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः । दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥ अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शम् । दम्भं स्तेन्यं पैशुनं मद्यपानं न सेवते यः स सुखी सदैव ॥