वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 462, कुल 490 में से
संदर्भ में पढ़ें४६६ वीरमित्रोदयस्य राजनीतिप्रकाशे यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे । कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥ यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः । समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥ यस्य सञ्चारिणी प्रज्ञा धर्मार्थावनुवर्तते । कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥ सञ्चारिणी, परोक्तस्य युक्तिसिद्धस्यार्थस्य श्रवणानन्तरं स्वमात्रबुद्धार्थग्रहरहिता । संसारिणीतिपाठे सम्यक्प्रसरणशी- ला । कामादर्थं वृणीत इति । कामापेक्षया धर्मसाधनत्वेनार्थस्य प्राधान्यमनुसृत्यार्थहान्या यः कामं न सेवत इतिभावः । यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते । न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥ क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थं भजते च कामान्। नासम्पृष्टो ह्युपयुङ्क्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य ॥ असम्पृष्टः परार्थे नोपयुङ्क्ते, नोपक्रमते । नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥ निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः । अबन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते ॥ नान्तर्वसति कर्मण इति । कर्मणः अन्तः कर्मणो मध्ये न वसांते नोपरमत इत्यर्थः । आर्यकर्माणि रज्यन्ते भूतिकर्माणि कुर्वते । हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥ न हृष्यत्यात्मसम्माने नावमानेन तप्यते । गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ॥