भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 463, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 463

प्रकीर्णके महाभारतीयाविदुरोक्तनीतयः । ४६७ तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् । उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ॥ प्रवृत्तवाक् चित्रकथ ऊहवान् प्रतिभानवान् । आशु ग्रन्थस्य वक्ता च यः स पण्डित उच्यते ॥ प्रतिभानवान् धृष्टः । यद्वा— प्रज्ञा नवनवोन्मेषशालिनी प्रतिभा मता । तद्वान् । श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा । असम्भिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ॥ तथा, अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव च । विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ॥ असमुन्नद्धः, गर्वरहितः । एवमुपादेयत्वेन पण्डितलक्षणा- न्यभिधाय हेयत्वेन मूढलक्षणान्यपि तत्रैवोक्तानि । अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः । अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति । मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥ अकामान् कामयति यः कामयानान् परित्यजेत् । बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ संसारयति कृत्यानि सर्वत्र विचिकित्सते । चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ कृत्यानि कार्याणि । संसारयति आरभते । सर्वत्र, तेषु कार्येषु । विचिकित्सते, इदं मदिष्टसाधनं भवति न वा, इदं म- च्छक्यं भवति न वेत्यादिसन्देहवान् भवति ।