भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 464, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 464

४६८ वीरमित्रोदयस्य राजनीतिप्रकाशे श्राद्धं पितृभ्यो न ददाति दैवतानि न चार्चति । सुहृन्मित्रं न भजते तमाहुर्मूढचेतसम् ॥ अनाहूतः प्रविशति अपृष्टो बहु भाषते । अविश्वस्ते विश्वसिति मूढचेता नराधमः ॥ परं क्षिपति दोषेण वर्त्तमानः स्वयं तथा । यश्च क्रुद्ध्यत्यनीशानः स च मूढतमो नरः ॥ स्वयं तथा वर्त्तमानः, दोषवान् । आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम् । अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥ नैष्कर्म्यात् कर्माकरणात् । अशिष्यं शास्ति यो राजन् यश्च शून्यमुपासते । कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥ कदर्यं, धने सत्यपि दानभोगरहितम् । तथा, एकः सम्पन्नमश्नाति वस्ते वासश्च शोभनम् । योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥ सम्पन्नं, पक्कं मिष्टपकम् । एकः पापानि कुरुते फलं भुङ्क्ते महाजनः । भोक्तारो विप्रमुच्यन्ते कर्त्ता दोषेण लिप्यते ॥ महान् बहुतरो जनः परिवारा यस्य स महाजनः । एकं हन्यान्न वा हन्यादिषुर्युक्तो धनुष्मता । बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु । पञ्च जित्वा विदित्वा षट् सप्त हित्वा सुखी भव ॥ एकया, बुद्ध्या दण्डनीत्या वा । द्वे, कार्याकार्ये । त्रीन्,