भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 465, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 465

प्रकीर्णके महाभारतविदुरोक्तनीतयः । ४६१ मित्रोदासीनशत्रून् । चतुर्भिः, सामदानदण्डभेदैरुपायैः । पञ्च, पञ्च ज्ञानेन्द्रियाणि च पञ्च कर्मेन्द्रियाणि च । षट्, सन्धिवि- ग्रहयानासनद्वैधीभावसंश्रयाख्यान् षड्गुणान् । सप्त— स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् । महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ इतिव्यसनानि । एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते । सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविप्लवः ॥ एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ एकमेवाद्वितीयं तद्यद्राजन्नावबुद्ध्यसे । सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ एकमेव सत्यं सत्यवचनं स्वर्गस्य सोपानम् । एकः क्षमावतां दोषो द्वितीयो नोपपद्यते । यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ सोऽस्य दोषो न मन्तव्यः क्षमा हि परमं धनम् । अक्षमावान् परं दोषैरात्मानं चैव योजयेत् ॥ एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा । विद्यैका परमा तृप्तिरहिंसैका सुखावहा ॥ द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव । राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ ब्राह्मणं, ब्रह्म नयतीति ब्राह्मणः, णीञ्प्रापण इत्यस्मात् । ब्रह्मज्ञः परिव्राट् तस्य परिभ्रमणस्योक्तत्वात् । द्वे कर्मणी नरः कुर्वन्नस्मिंल्लोके विरोचते । अब्रुवन् परुषं किञ्चिदसतोऽनर्चयंस्तथा ॥