वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 470, कुल 490 में से
संदर्भ में पढ़ें४७४ वीरमित्रोदयस्य राजनीतिप्रकाशे साक्षिणो गृह्यमाणविषयनिवेदयितारो यत्र तत्तादृशम् । क्षे- त्रज्ञाधिष्ठितं, क्षेत्रं शरीरं जानाति आत्मत्वेन बुध्यते स क्षेत्रज्ञो जीवः तदधिष्ठितम् । परः कविः, उत्कृष्टः पण्डितः । दशधर्मं न जानन्ति धृतराष्ट्र निबोध तान् । मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥ त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश । तस्मादेतेषु सर्वेषु न प्रसज्जेत पण्डितः ॥ मत्तः, मद्यपानादिनाऽनवहितः । प्रमत्तः, असावधानः । उन्मत्तः, वातरोगादिमान् । श्रान्तः, अध्वगमनभारवहनादिना परिश्रान्तः । तथा, यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनानि । विशेषविच्छ्रुतवान् क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम् ॥ जानाति विश्वासयितुं मनुष्यान्विज्ञातदोषेषु दधाति दण्डम् । जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा ॥ मात्रां, दण्डपरिमाणम् । कस्मिन्नपराधे कियान् दण्डः क- र्त्तव्य इत्यादिकम् । सुदुर्बलं नावजानाति कञ्चिद्युक्तो रिपुं सेवते बुद्धिपूर्वम् । न विग्रहं रोचयते बलिष्ठैः काले च यो विक्रमते स धीरः॥ युक्तः, युक्तिमान् । युक्तिश्च स्वसंरक्षणपूर्वकपरनिग्रहानुकू- लो यत्नः । प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः । दुःखं च काले सहते महात्मा धुरन्धरस्तस्य जिताः सपत्नाः॥ अनर्थकं विप्रवासं गृहेभ्यः पापैः सन्धिं परदाराभिमर्शम् । दम्भं स्तेन्यं पैशुनं मद्यपानं न सेवते यः स सुखी सदैव ॥