वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 471, कुल 490 में से
संदर्भ में पढ़ेंप्रकीर्णके महाभारतीयदिदुरोक्तनीतयः । ४७५ न संरम्भेणारभते त्रिवर्गमाकारितः शंसति तत्त्वमेव । न मित्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः ॥ न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति । नात्याहिते किञ्चित्क्षमते विवादं सर्वत्र तादृक् लभते प्रशंसाम्॥ दुर्बलः, असमर्थः । प्रातिभाव्यं, प्रतिभूत्वम् । "अत्याहितं महाभीतिः कर्म जीवनपेक्षि च" इत्यमरः । यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् । न मूच्छितः कटुकान्याह किञ्चित्प्रियं सदा तं कुरुते जनो हि ॥ मूर्च्छितः, वृद्धिं प्राप्तः, अथ वा दुःखितः । न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति नास्तमेति । न दुर्गतोऽस्मीति करोत्यकार्यं तमार्यशीलं परमाहुरार्याः ॥ दर्पं, गर्वम् । अस्तम्, अकिञ्चनत्वम् । दुर्गतः, दरिद्रः । न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रहृष्टः । दत्त्वा न पश्चात्कुरुतेऽनुतापं स कथ्यते सत्पुरुषार्यशीलः ॥ देशाचारान्समयान् जातिधर्मान् बुभूषते यः स परावरज्ञः । स यत्र तत्राभिगतः सदैव महाजनस्याधिपत्यं करोति ॥ समयान्, राज्ञा ज्ञातिश्रेष्ठैश्च कृतान् कर्त्तव्याकर्त्तव्यनियमान्। दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम् । मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान् वर्जयेत्स प्रधानः ॥ पूगवैरम्, पूगैः समुदायापन्नैः सह वैरम् । दमं शौचं दैवतं मङ्गलानि प्रायश्चित्तं विविधांल्लोकवादान् । एतानि यः कुरुते नित्यकानि तस्योत्थानं देवता धारयन्ति ॥ दमं, बाह्येन्द्रियनिग्रहम् । समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथाश्च । १ पृष्टः ।