वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 469, कुल 490 में से
संदर्भ में पढ़ेंप्रकीर्णके महाभारतीयाविदुरोक्तनीतयः । ४७३ राजा विवदमानेषु नित्यं मूर्खेषु पण्डितः ॥ सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः । प्रायशो यैर्विनश्यन्ति कृतमूला अपीश्वराः ॥ स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् । महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः । ब्राह्मणान् प्रथमं द्वेष्टि ब्राह्मणैश्च विरुद्ध्यते ॥ ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति । रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ नैतान् स्मरति कृत्येषु याचितश्चाभ्यसूयते । एतान्दोषान्नरः प्राज्ञो बुध्येद्बुद्ध्वा विसर्जयेत् ॥ अष्टाविमानि हर्षस्य नवनीतानि भारत । वर्त्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ॥ समागमश्च सखिभिर्महांश्चैव धनागमः । पुत्रेण च परिष्वङ्गः सन्निपातश्च मैथुने ॥ समये च प्रियालापः स्वयूथ्येषु समुन्नतिः । अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥ समये हर्षादिसमये । अष्टौ गुणाः पुरुषं दीपयन्ति प्रज्ञा च कौल्यं च दमः श्रुतं च । पराक्रमश्चाबहुभाषिता च दानं यथाशक्ति कृतज्ञता च ॥ नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् । क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेदः स परः कविः ॥ नवद्वारमिति । चक्षुःश्रोत्रनासामुखपायूपस्थरूपनवद्वारम् । त्रिस्थूणं, त्रीणि सत्त्वरजस्तमांसि वातपित्तकफा वा स्थूणा आधारस्तम्भा यस्य तत् । पञ्चसाक्षिकं, पञ्च ज्ञानेन्द्रियाणि ६०