भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 468, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 468

४७२ वीरमित्रोदयस्य राजनीतिप्रकाशे अरक्षितारं राजानं भार्या चाप्रियवादिनीम् । ग्रामकामं च गोपालं वनकामं च नापितम् ॥ षडेव तु गुणाः पुंसा न हातव्याः कदाचन । सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥ षडिमानि विनश्यन्ति मुहूर्त्तानवेक्षणात् । गावः सेवा कृषिर्भार्या विद्या वृषलसङ्गतिः ॥ षडेते ह्यवमन्यन्ते नित्यं पूर्वोपकारिणम् । आचार्यं शिक्षिताः शिष्याः कृतकृत्या नरेश्वरम् ॥ नारीं विगतकामाश्च कृतार्थाश्च प्रयोजकम् । नावं निस्तीर्णकान्तारा आतुराश्च चिकित्सकम् ॥ निस्तीर्णकान्ताराः, निस्तीर्णदुर्गमजलमार्गाः । आरोग्यमानृण्यमविप्रवासः सद्भिर्मनुष्यैः सह सम्प्रयोगः । स्वप्रत्यया वृत्तिरभीतवासः षड्जीवलोकस्य सुखानि राजन् ॥ स्वप्रत्यया, स्वाधीना । "प्रत्ययोऽधीनशपथज्ञानविश्वासहे- तुषु"इति कोषः । वृत्तिः जीविका "वृत्तिर्वर्त्तनजीवने"इत्यमरः । ईर्ष्या घृणी त्वसन्तुष्टः क्रोधनो नित्यशङ्कितः । परभाग्योपजीवी च षडेते नित्यदुःखिताः ॥ अर्थागमो नित्यमरोगिता च प्रिया च भार्या प्रियवादिनी च। वश्यश्च पुत्रोऽर्थकरी च विद्या षड् जीवलोकस्य सुखानि तात॥ षण्णामात्मनि नित्यानामैश्वर्यमधिगच्छति । न स पापैः कुतोऽनर्थैर्युज्येत विजितेन्द्रियः ॥ षण्णाम्, इन्द्रियाणाम् । ऐश्वर्यं, वशित्वम् षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते । चौराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ॥ प्रमदाः काममानेषु यजमानेषु याजकाः ।