वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 467, कुल 490 में से
संदर्भ में पढ़ेंप्रकीर्णके महाभारतीयदिदुरोक्तनीतयः । ४७१ वरप्रदानं राज्यं च पुत्रजन्म च भारत । शत्रोश्च मोक्षणं कृच्छ्रात्त्रीणि चैकं च तत्समम् ॥ चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात् । अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्न दीर्घसूत्रैरलसैश्चारणैश्च ॥ चत्वारि ते तात गृहे वसन्तु श्रेयोऽभिजुष्टस्य गृहस्थधर्मे । वृद्धज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥ चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः । पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे ॥ सद्यस्कानि, सद्यःफलानि । देवतानां च सङ्कल्पमनुभावं च धीमताम् । विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥ सङ्कल्पं चिकीर्षितम् । पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः । पिता माताग्निर्रात्मा च गुरुश्च भरतर्षभ ॥ पञ्चैव पूजयंल्लोके यशः प्राप्नोति केवलम् । देवान् पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥ पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि । मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥ पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् । ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ॥ दृतेः चर्मपुटकस्य । षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता ॥ षडिमान् पुरुषो जह्याद्भिन्नां नावमिवार्णवे । अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥