वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 482, कुल 490 में से
संदर्भ में पढ़ें४८६ वीरमित्रोदयस्य राजनीतिप्रकाशे एतान् गुणांस्तात महानुभावानेको गुणः संश्रयते प्रसह्य । राजा यदा संश्रयते मनुष्यं सर्वान् गुणानेव गुणो विभाति ॥ अष्टौ नृपेमानि मनुष्यलोके स्वर्गस्य लोकस्य निदर्शनानि। चत्वार्येषामन्ववेतानि सद्भिश्चत्वारि चैषामनुयान्ति सन्तः ॥ निदर्शनानि, नितरां दृश्यते यैस्तानि । यथा— यज्ञो दानमध्ययनं तपश्च चत्वार्येतान्यन्ववेतानि सद्भिः । दमः सत्यमार्जवमानृशंस्यं चत्वार्येतान्यनुयान्ति सन्तः ॥ एतानि चत्वारि सद्भिः सत्सङ्गत्या अन्ववेतानि प्राप्तानि । दमादीनि तु चत्वारि अनु लक्षीकृत्य सन्तः यान्ति तत्प्राप्त्यर्थं यतन्ते यत एतैर्विना सत्त्वमेव न भवति । इज्याध्ययनदानानि तपः सत्यं क्षमा घृणा । अलोभ इति मार्गोऽयं धर्मस्याष्टाविधः स्मृतः ॥ तत्र पूर्वश्चतुर्वर्गो दम्भार्थमपि सेव्यते । उत्तरस्तु चतुर्वर्गो नामहात्मसु तिष्ठति ॥ न सा सभा यत्र वसन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम्। नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनाभ्युपेतम्॥ सत्यं रूपं श्रुतं विद्या कौल्यं शीलं बलं धनम् । शौर्यं च चित्रभाष्यं च दश संसर्गयोनयः ॥ रूपं, शरीरसौन्दर्यम् उज्ज्वलवेषता च । विद्या, अत्युत्कटा वेदशास्त्रादिः सभाचातुर्यादिश्च । कौल्यं, महाकुलप्रसूतत्वम् । चित्रभाष्यं, विचित्रं भाषणम् । संसर्गयोनयः, सेवादिसंसर्ग- स्य कारणानि । पापं कुर्वन् पापकीर्त्तिः पापमेवाश्नुते फलम् । पुण्यं कुर्वन्पुण्यकीर्त्तिः पुण्यमत्यन्तमश्नुते ॥ तस्मात्पापं न कुर्वीत पुरुषः शंसितव्रतः ।