वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 483, कुल 490 में से
संदर्भ में पढ़ेंप्रकीर्णके महाभारतियविदुरोक्तनीतयः । ४८७ पापं प्रज्ञां नाशयति क्रियमाणं पुनः पुनः । नष्टप्रज्ञः पापमेव नित्यमारभते नरः ॥ पुण्यं प्रज्ञां वर्धयति क्रियमाणं पुनः पुनः । वृद्धप्रज्ञः पुण्यमेव नित्यमारभते नरः ॥ पुण्यं कुर्वन् पुण्यकीर्त्तिः पुण्यं स्थानं स्म गच्छति । तस्मात्पुण्यं निषेवेत पुरुषः सुसमाहितः ॥ असूयको दन्दशूको निष्ठुरो वैरकृच्छठः । स कृच्छ्रं महदाप्नोति न चिरात्पापमाचरन् ॥ अनसूयुः कृतप्रज्ञः शोभनान्याचरन्सदा । न कृच्छ्रं महदाप्नोति सर्वत्र च विरोचते ॥ प्रज्ञामेवागमयति यः प्राज्ञेभ्यः स पण्डितः । प्राज्ञो ह्यवाप्य धर्मार्थौ शक्नोति सुखमेधितुम् ॥ दिवसेनैव तत्कुर्यात् येन रात्रौ सुखं वसेत् । अष्टमासेन तत्कुर्याद्येन वर्षाः सुखं वसेत् ॥ पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् । यावज्जीवेन तत्कुर्याद्येनामुत्र सुखं वसेत् ॥ जीर्णमन्नं प्रशंसन्ति भार्यां च गतयौवनाम् । शूरं विजितसङ्ग्रामं गतपारं तपस्विनम् ॥ भार्यामिति यौवनेऽप्यस्या धर्मच्युतिर्न जातेति गतयौव- नां सतीं प्रशंसन्ति स्तुवन्ति न तु यौवनवतीं, यौवने धर्म- क्षतेः सम्भावितत्वादितिभावः । गतपारं, तपस्याया गतपारम् । तपस्यामध्ये ऐहिकसिद्धीनां विघ्नभूतानां सम्भावित्वात् । धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते । असंवृतं तद्भवति ततोऽन्यदवदीर्यते ॥ गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम् ।