वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 484, कुल 490 में से
संदर्भ में पढ़ें४८८ वीरमित्रोदयस्य राजनीतिप्रकाशे अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ ऋषीणां च नदीनां च कुलानां च महात्मनाम् । प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥ द्विजातिपूजाभिरतो दाता ज्ञातिषु चार्जवी । क्षत्रियः शीलभाग्राजंश्चिरं पालयते महीम् ॥ सुवर्णपुष्पं पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ बुद्धिश्रेष्ठानि कर्माणि बाहुमध्यानि भारत । तानि जङ्घाजघन्यानि भारप्रत्यवराणि च ॥ बुद्धिश्रेष्ठानीत्यादि । कर्माणि बुद्धिमात्रेण राजसेवादायीनि मन्त्रित्वादीनि श्रेष्ठानि । बाहुबलेन तादृशानि धनुर्द्धरत्वादी- नि मध्यानि । जाङ्घिकत्वादीनि जघन्यानि अधमानि । भारवाहित्वादीन्यत्यधमानीत्यर्थः । आपद्धर्मे महाभारते, बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः । जवेन सन्धिं कुर्वीत पूर्व्वान् पूर्व्वान् विमोचयन् ॥ यो धर्मविजिगीषुः स्याद्बलवान् पापनिश्चयः । आत्मनः सन्निरोधेन सन्धिं तेनापि रोचयेत् ॥ अपास्य राजधानीं वा तरेद्द्रव्येण वाऽऽपदम् । तद्भावयुक्तो द्रव्याणि जीवन्पुनरुपार्जयेत् ॥ तद्भावो राजभावः । यास्तु कोशबलत्यागाच्छक्यास्तारितुमापदः । कस्तत्राधिकमात्मानं सन्त्यजेदर्थधर्मवित् ॥ न त्वेवात्मा प्रदातव्यः शक्ये सति कथञ्चन । तथा,