वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 485, कुल 490 में से
संदर्भ में पढ़ेंअकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्पते । तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥ तथा, न च कश्चित्कृते कार्ये कर्तारं समवेक्षते । तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ कारयेत्, कुर्यात् । तथा, कारणात्प्रियतामेति द्वेष्यो भवति कारणात् । अर्थार्थी जीवलोकोऽयं न कश्चित्कस्य चित्प्रियः ॥ आत्मार्थे सन्ततिस्त्याज्या राज्यं रत्नं धनानि च । अपि सर्वस्वमुत्सृज्य रक्षेदात्मानमात्मना ॥ तथा, ब्राह्मणा वै परं श्रेयो दिवि चेह च भारत । एते धर्मस्य वेत्तारः कृतज्ञाः सततं प्रभो ॥ पूजिताः शुभकर्त्तारः पूजयेत्तान्नराधिपः । तथा, तत्रैव ब्रह्मदत्तोपाख्याने पूजन्या वाक्येषु । सान्त्वे प्रयुक्ते सततं कृतवैरे न विश्वसेत् । क्षिप्रं स वध्यते मूढो न हि वैरं प्रशाम्यति ॥ न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नमपि मूलं निकृन्तति ॥ कामं विश्वासयेदन्यान् परेषां च न विश्वसेत् । तथा, नास्ति वैरमतिक्रान्तं सान्त्वितोऽस्मीति नाश्वसेत् । विश्वासाद्वध्यते लोके तस्माच्छ्रेयोऽप्यदर्शनम् ॥ तरसा ये न शक्यन्ते शस्त्रैः सुनिशितैरपि । ६२