वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 486, कुल 490 में से
संदर्भ में पढ़ें४९० वीरमित्रोदयस्य राजनीतिप्रकाशे सान्ना तेऽपि निगृह्यन्ते गजा इव करेणुभिः ॥ तथा, कृतवैरे न विश्वासः कार्यस्त्विह सुहृद्यपि । छन्नं सन्तष्ठते वैरं गूढोऽग्निरिव सागरे ॥ न हि वैराग्निरुद्भूतः कर्म चाप्यपराधजम् । शाम्यत्यदग्ध्वा नृपते विना ह्येकतरक्षयात् ॥ तथा, सदा न विश्वसेद्राजा पापं कृत्वेह कस्य चित् । अपकृत्य परेषां हि विश्वासाद्दुःखमश्नुते ॥ दैवं पुरुषकारश्च स्थितावन्योन्यसंश्रयात् । उदाराणां तु सत्कर्म दैवं क्लीबा उपासते ॥ दत्त्वाभयं यः स्वयमेव राजा न तत्प्रमाणं कुरुतेऽर्थलोभात् । सर्वस्य लोकादुपलभ्य पापं सोऽधर्मबुद्धिर्निरयं प्रयाति ॥ दत्त्वाऽभयं स्वयं राजा प्रमाणं कुरुते यदि । स सर्वसुखकृज्ज्ञेयः प्रजा धर्मेण पालयन् ॥ माता पिता गुरुर्गोप्ता वह्निर्वैश्रवणो यमः । सप्त राज्ञो गुणानेतान्मनुराह प्रजापतिः ॥ पिता हि राजा राष्ट्रस्य प्रजानां योऽनुकम्पनः । तस्मिन् मिथ्याविनीतो हि तिर्यग्गच्छति मानवः ॥ यस्तु रञ्जयते राजा पौरजानपदान् गुणैः । न तस्य भ्रंशते राज्यं स्वयं धर्मानुपालनात् ॥ नित्योद्विग्नाः प्रजा यस्य करभारप्रपीडिताः । अनर्थैर्विप्रलुप्यन्ते स गच्छति पराभवम् ॥ प्रजा यस्य विवर्द्धन्ते सरसीव महोत्पलम् । स सर्वफलभाग्राजा स्वर्गलोके महीयते ॥