वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 49, कुल 490 में से
संदर्भ में पढ़ेंरामायणोक्तराजाभिषेकः । ४७ ०ण्यशृङ्गं वृषभं समग्रं व्याघ्रचर्म च । यच्चान्यत्किञ्चिदेष्टव्यं यच्च किञ्चिन्मनोऽनुगम् ॥ उपास्थापयत प्रातरग्न्यगारे महीपतेः । अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ॥ चन्दनैः स्रग्भिरर्च्यन्तां सुमनोदामभिस्तथा । प्रशस्तवस्तु गुणवद्दधिक्षीरोपसेचनम् ॥ द्विजानां शतसाहस्रं यत्प्रकाममलं भवेत् । सिद्धमन्नाद्य सम्भारं प्रत्यूषस्येव कल्प्यताम् ॥ सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् । ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च ॥ आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् । सर्वे च नागराश्चैव गणिकाश्च स्वलङ्कृताः ॥ कक्ष्यां द्वितीयामासाद्य तिष्ठेयुर्नृपवेश्मनि । कक्ष्यां प्रकोष्ठम् । देवायतनचैत्येषु जलभक्ष्याः सदक्षिणाः ॥ उपस्थापयितव्याश्च माल्ययोगाः पृथक्पृथक् । बद्धदीर्घासयो योधाः सन्नद्धा धृष्टवाससः ॥ महाराजस्य भवनं प्रविशन्तु महोदयम् । एवमाज्ञाप्य तत्सर्वं कृतमित्यभ्यवेदयत् ॥ सुप्रीतमनसे राज्ञे वसिष्ठो हर्षयन् पुनः । तथा, आभिषेचनिकं द्रव्यं सर्वमेवोपकल्पितम् । गङ्गायमुनयोश्चैव सङ्गमादाहृतं जलम् ॥ १ तत्सर्वमुपकल्प्यताम्-इत्यपि पाठः