भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 50, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 50

४८ वीरमित्रोदयस्य राजनीतिप्रकाशे याश्चान्याः सरितः पुण्यास्ताभ्यश्च जलमाहृतम् सर्वबीजानि गन्धाश्च रत्नानि विविधानि च ॥ वाहनं नरसंयुक्तं दर्भाः सुमनसः पयः । अहतानि च वासांसि भृङ्गारं च हिरण्मयम् ॥ क्षीरवृक्षमवालैश्च पश्चात्फलविमिश्रितैः । पूर्णकुम्भाः सुलक्षण्याः काञ्चना उपकल्पिताः ॥ रसो गोरोचना चैव लाजा दधि घृतं मधु । तथैव पुण्यतीर्थेभ्यो मृदापो जङ्गमानि च ॥ चन्द्रांशुविमले चारुमणिदण्डे स्वलङ्कृते । चामरव्यजने श्रीमद्रामार्थमुपकल्पिते ॥ पूर्णेन्दुमण्डलाभं च श्रीमन्माल्यविभूषितम् । रामस्य यौवराज्यार्थमातपत्रं प्रकल्पितम् ॥ मत्तो गजवरश्चैव औपवाह्यः प्रतीक्षते । औपवाह्यः राजवाह्यः । श्वेतश्च तुरगश्चैव रामार्थमुपकल्पितः ॥ अष्टौ कन्याश्च मङ्गल्याः सर्वाभरणभूषिताः । रूपयौवनसम्पन्ना गणिकाश्च स्वलङ्कृताः ॥ श्वेतपुष्पाणि धेनुश्च निस्त्रिंशो धनुरेव च । हेमदाम्ना स्वलङ्कृत्य ककुद्मी पाण्डुरो वृषः ॥ सिंहासनं व्याघ्रचर्म समिद्धश्च हुताशनः । वादित्राणि च सर्वाणि सूतमागधवन्दिनः ॥ अमात्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः । पौरजानपदाः श्रेणीर्नैगमानां गणैः सह ॥ एते चान्येऽपि बहवः प्रीयमाणाः प्रियंवदाः । नैगमाः रत्वादीनां वाणिज्यकर्तारः ।