वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 51, कुल 490 में से
संदर्भ में पढ़ेंविष्णुधर्मोत्तरोक्तजाभिषेकः । ४९ तथा, गते पुरोहिते रामस्ततो नियतमानसः । सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ॥ प्रगृह्य शिरसा पात्रं हविषो विधिवत्ततः । महते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥ शेषं च हविषस्तस्य प्राश्याशास्यात्मनिश्रयम् । ध्यायन्नारायणं देवं स्थण्डिले कुशसंस्तरे ॥ वाग्यतः सह वैदेह्या भूत्वा च नियतात्मवान् । श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥ कृतोपवासं रामं तु वैदेह्या सहितं तदा । सदर्भायां क्षितौ सुप्तं शुश्राव विधिवज्जनः ॥ विष्णुधर्मोत्तरे तु पुरन्दरशान्तिपूर्वकोऽभिषेक उक्तः कार्या पौरन्दरी शान्तिः प्रागेवास्य पुरोधसा । प्राप्तेऽभिषेकदिवसे सोपवासः पुरोहितः ॥ सोष्णीषः श्वेतवसनः सितचन्दनभूषितः । सितमाल्योपवीतश्च सर्वाभरणभूषितः ॥ वेदिमुल्लिख्य मन्त्रेण हुत्वा च विधिवत्ततः । जुहुयाद्वैष्णवान्मन्त्रांस्तथा शाक्रान् विचक्षणः ॥ सावित्रान् वैश्वदेवाद्यान् सौम्यांश्च विधिवत्ततः । आयुः शर्मगणं चैव तथा स्वस्त्ययनं गणम् ॥ आयुष्यमभयं चैव तथा चैवापराजितम् । सम्पातवन्तं कलशं तथा कुर्याच्च काञ्चनम् ॥ वह्नेर्दक्षिणपार्श्वस्थः श्वेतचन्दनभूषितः । श्वेतानुलेपनः स्रग्वी सर्वाभरणभूषितः ॥ आसनस्थः सुखं पश्येन्निमित्तानि हुताशने । ७