वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 57, कुल 490 में से
संदर्भ में पढ़ेंविष्णुधर्मोत्तरोक्तराजाभिषेकः ५५ व्याघ्रव्यालगजांसहा अश्वोष्ट्रौ मांहषो वृषः । भूषणेषु त्यजेदष्टौ यदीच्छेद्दीर्घजीवितम् ॥ इति । श्रीवृक्षो बिल्वः । इभो गणेशः । स्वामी कार्त्तिकेयः । वराहसंहितायामपि दैर्ध्यादिमानं भङ्ग्यन्तरेणोक्तम्, मध्य- विस्तारमुक्त्वा । सर्वे द्विगुणायामा मध्यादर्धेन तदर्धविस्ताराः । सर्वे विशुद्धकाञ्चनविनिर्मिताः श्रेयसो वृद्धयै ॥ पञ्चशिखो भूमिपतेस्त्रिशिखो युवराजमहिष्योः । एकशिखः सैन्यपतेः प्रसादपट्टो विना शिखया ॥ इति । विष्णुधर्मोत्तरे, ततः स बद्धमुकुटः काले पूर्वं मयोदिते । पराद्धर्यास्तरणोपेते मञ्चे बद्धोत्तरच्छदे ॥ परार्द्धं बहुमूल्यम् । ध्रुवाद्यौरितिमन्त्रेण सोपवेश्यः पुरोधसा । वृषस्य वृषदंशस्य द्वीपिनश्च मृगूद्रह ॥ तेषामुपरि सिंहस्य व्याघ्रस्य च परं ततः । वृषदंशो मार्जारः । द्वीपी चित्रकः । तत्रोपविष्टस्य तदा प्रतीहारः प्रदर्शयेत् । अमात्यांश्च तथा पौरान्नैगमांश्चापणेश्वरान् ॥ तथा प्रकृतयश्चान्या यथावदनुपूर्वशः । ततोऽग्रहारवस्त्रेभतुरङ्गकनकोत्तमैः ॥ गोजाविगृहदानैश्च सांवत्सरपुरोहितौ । पूजयित्वा ततः पश्चात् पूजयेद्ब्राह्मणत्रयम् ॥ अनेनैव विधानेन येन राजाऽभिषेचितः । ततः सदस्यान्सम्पूज्य सांवत्सरपुरोधसः ॥