वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 65, कुल 490 में से
संदर्भ में पढ़ेंअभिषेकप्रयोगः । ६३ चार्योऽग्निस्थापनान्तं कृत्वा प्राच्यां कलशं संस्थाप्य तत्र य- थाशक्ति सौवर्णीमैन्द्रीं प्रतिमां प्रतिष्ठाप्य यथाविभवं पूजयेत् । ततो ऽमृताशान्तिप्रकारेण चरुं श्रपयित्वा इन्द्र जुषस्वेतिसूक्तेन प्रत्यृचं जुहुयात् । शेषममृतावत् । इत्यैन्द्रशान्तिप्रयोगः । अथाभिषेकप्रयोगः । तत्र पूर्वस्मिन् दिवसे नगरदेवायतने ध्वजपताकातोरणादि- भिरलङ्कृत्य कृतोपवासः पुरोहितोऽभिषेकदिवसे स्नातोऽनुलि- प्तः शुचिः शुक्लवासाः सोष्णीषो वेदिदेशे स्नातेन श्वेतवस्त्र- माल्याद्यलङ्कृतेन सर्वाभरणभूषितेन राज्ञा तिथ्याद्युल्लेखपूर्व- कं मम कृत्स्नस्य राष्ट्रस्य वश्यतासिद्ध्यर्थं सांवत्सरपुरोहिता- भ्यां विष्णुधर्मोत्तरोक्तविधिनाऽऽत्मानमभिषेचयिष्य इति सङ्क- ल्पयेत् । ततः सांवत्सरपुरोहितयोः ऋग्यजुरथर्वविदां विप्र- क्षत्रियविशाममात्यानां छन्दोगस्य च विप्रामात्यस्य चैकैक- स्य वान्यतमवेदविदो वरणे कृते अन्येषु चातुर्वर्ण्यमुख्येषु सन्निधापितेषु होमदेशादुत्तरतः स्नानशालायां यथासम्भवं सर्वतीर्थजलपूर्णं सर्वौषधीसर्वरत्नसर्वफलयुतं क्षीरिवृक्षक्षीर- लतापल्लवोपेतं सर्वतस्त्रिगुणसितसूत्रेण वेष्टितं श्वेताम्बरवेष्टि- तकण्ठं मालादिभिरलङ्कृतं शैवालमुखं नवं सौवर्णं कलशं मध्ये, तत्समन्ततश्च यथास्थानं पञ्चगव्यमिश्रजलकलशं घृतपूर्णं हेम- कुम्भं क्षीरपूर्णं रौप्यकुम्भं दधिपूर्णं ताम्रकुम्भं मधुकुम्भं कुशोदक- कुम्भं शतच्छिद्रं सौवर्णम् अन्यांश्च नद्यादिजलपूर्णान् मृन्मयान् कलशान् कलशस्थापनविधिना स्थापयेत् । यथासम्भवं पूर्वो- क्तपर्वताग्रादिमृदः पूर्वोक्तलक्षणं सौवर्णाद्यन्यतमनिर्मितं भद्रासनं १ सविस्तरोऽयं प्रयोगो नीतिमयूखे द्रष्टव्यः ।