वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 64, कुल 490 में से
संदर्भ में पढ़ेंयित्वाऽस्मिन् राष्ट्रेऽयमिदानीं राजेति जयं घोषयित्वा पूर्वराजा- सनादन्यासनोपविष्टस्य मुख्यं मन्त्र्यादिकं नागरिकं च जनं द- र्श्येताम् । ततः सर्वं जनं सत्कृत्य पूर्वराजबद्धान्मुक्त्वा स्वरा- ष्ट्रेऽभयं घोषयित्वा तदासनगत एव प्रजाः परिपालयन् वर्षा- न्तराभिषेककालप्रतीक्षया तिष्ठेत् । पूर्वस्मिन् जीवति द्वितीय- स्याभिषेके स्नपनादिकालप्रतीक्षान्तमकृत्वा शुभे कालेऽभि- षेक एव कार्यः । अथाभिषेकपूर्वकर्त्तव्यैन्द्रशान्तिप्रयोगः । शुभेऽह्नि यथाविभवं याज्ञवल्क्याद्युक्तप्रकारेण विनायकशान्तिं नवग्रहमखं च कृत्वा उपकल्पितसमस्तसम्भारः सपत्नीको रा- जा सांवत्सरादभिषेकदिनशुद्धिं विदित्वा तत्पूर्वदिवसे पुरोहि- ताचार्यसांवत्सरादीन् सन्निधाप्य शुचौ देशेऽन्तर्जानुकर उपवि- श्येष्टदेवगुरुद्विजकुलज्येष्ठान् नत्वा दर्भपाणिराचम्य प्राणाना- यम्य तिथ्यादि सङ्कीर्त्य करिष्यमाणराज्याभिषेकाङ्गत्वेनैन्द्रीं शान्तिं करिष्य इति सङ्कल्प्य, विजयबलपशुवृष्टिकामनया परचक्रागमनिवृत्तिकामनया चैन्द्रीं शान्तिं करिष्य इति काम्यायाम् । तत्र निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं स्वस्तिपु- ण्याहवाचनं मातृकापूजनाभ्युदयिकश्राद्धाचार्यवरणानि च तत्पूर्वाङ्गानि करिष्य इति सङ्कल्प्य यथाविभवं षोडशोपचारै- र्गणपतिमभ्यर्च्य यथास्वगृह्यं स्वस्तिवाचनादि विधायैन्द्रीं शान्तिं कर्तुमाचार्यं त्वामहं वृण इति पुरोहितं वृणुयात् । आचार्यस्तु यथा स्वर्गे शक्रादीनां बृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत ॥ इत्याचार्यवरणे मन्त्रः । मधुपर्कादिवस्त्रान्तम् । तत आ-