वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
४. चतुर्थ प्रकाश: विजय-प्राप्ति पर विजित-राष्ट्र धर्म, शान्ति-रक्षा व ग्रन्थ उपसंहार
यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३८५
जातहारी, दंष्ट्राली, शुष्करेवती ८ भद्रकर्णीप्र०। पिपीलिका, पुष्प- हारी, अशनी, सर्वहारिणी, भद्रहारी, शुभाचारी, हेमा, योगेश्वरी, चित्रा, भानुमती, छिद्रा, सैंहिकी, सुरभी, समा, सर्वभव्या, वेगाख्या १६ भद्रकर्णीद्वि० ८। ऐन्द्री, चित्रभानुः, वारुणी, दाण्डिः, प्राणरूपी, हंसः, स्वात्मशक्तिः, पितामहः ८ अणिमाप्र० । केशवः, रुद्रः, चन्द्रमाः, भास्करः, बाह्यात्मा, अन्तरात्मा, आत्मा, महेश्वरः, परमात्मा, अणुजीवः, पिङ्गलः, पुरुषः, पशुः, भोक्ता, भूतपतिः, भीमः १६। अणिमाद्वि० ९। श्रीकण्ठः, अन्तः, सूक्ष्मः, त्रिमूर्तिः, शशकः, अमरेशः, स्थितीशः, भारभूतः ८ लघिमाप्र०। स्थाणुः, हरः, चण्डेशः, भूतीशः, सद्योजातः, गुहेशः, क्रूर- सेनः, सुरेश्वरः, क्रोधीशः, चण्डः, प्रचण्डः, शिवः, एकरुद्रः, कूर्मः, एकनेत्रः, चतुर्मुखः १६ लघिमाद्वि० १०। अजेशः, क्षेमरुद्रः, सोमेशः, लाङ्गली, चण्डारुः, अर्धनारीशः, एकान्तः, अन्तः ८ म- हिमाप्र०। शिखीशः, शकलः, चण्डः, दिरण्डः, कलः, पाली, भुजङ्गः, पिनाकी, खड्गिः, कामः, ईशः, श्वेतः, भृगुः, महिमाद्वि० ११। संवर्त्तः, नकुलीशः, वाडवः, हस्तिः, चण्डयक्षः, गणपतिः, महाभृगुः, अजः ८ प्राप्तिप्र० । त्रिविक्रमः, महाजिह्वः, ध्वाङ्क्षः, श्रीभद्रः, महादेवः, दधीचः, कुमारः, परावरः, महादंष्ट्रः, करालः, सूचकः, सुवर्धनः, महाध्वाङ्क्षः, महानन्दी, गण्डी, गोपालकः १६ प्राप्तिद्वि० १२। पुष्पदन्तः, महानन्दः, विपुलानन्दकारकः, शुक्लः, विशालः, कमलः, बिल्वः, अरुणः ८ प्राकाम्यप्र० । रतिमित्रः, सुरेशनः, चित्राङ्गः, सुदुर्जयः, विनायकः, क्षेत्रपालः, महामोहः, जाङ्गलः, वत्सपुत्रः, महापुत्रः, ग्रामाधिपः, देशाधिपः, सर्वस्थानाधिपः, मेघनादः, प्रचण्डकः, कालदूतः १६ प्राका- म्यद्वि० १३। मङ्गला, चर्चिका, योगेशा, हरदायिका, भासुरा, ४९
३८६ वीरमित्रोदयस्य राजनीतिप्रकाशे सुरमाता, सुन्दरी, मातृका ८। ईशित्वप्र० । गणाधिपः, मन्त्रज्ञः, वरदेवः, षडाननः, विदग्धः, विचित्रः, अमोघः, मोघः, अश्वः, रुद्रः, सोमेशः, उत्तमोदुम्बरः, नारसिंहः, विजयः, इन्द्रगुहः, अपाम्प- तिः १६ ईशित्वद्वि० १४। गगनः, भवनः, विजयः, अजयः, महाजयः अङ्गारः, व्यङ्गारः, महायशाः ८ वशित्वप्र० । महाहर्षः, प्रचण्डेशः, महावर्णः, महासुरः, महारोमा, महागर्भः, प्रथमः, कनकः, खरजः, गरुडः, मेघनादः, गर्जकः, गजत्वक्छेदकः, वाहः, त्रिशिखः, मारिः १६ वशित्वद्वि० १५। विनादः, विकटः, वसन्तः, अ- भयः, विद्युत्, महाबलः, कमलः, दमनः ८ कामावसायिका- काप्र० । धर्मः, अतिबलः, सर्पः, महाकायः, महाहनुः, सबलः, भस्माङ्गी, दुर्जयः, दुरातिक्रमः, वेतालः, रौ- रवः, दुर्धराभोगः, वज्रः, कालाग्निरुद्रः, सिंहनादः, महागु- हः १६ कामावसायिकाद्वि० १६। ततो दाक्षादिशिवतृतीयाव- रणदेवतानां प्रथमद्वितीयावरणदेवतास्तत्कोष्ठबाह्याष्टतद्वाह्यषो- डशकोष्ठेषु स्थाप्याः । ता यथा-मनोहरा, महानादा, चित्रा, चित्ररथा, रोहिणी, चित्राङ्गी, चित्ररेखा, विचित्रिका ८ दाक्षा- प्र० चित्रा, विचित्ररूपा, शुभदा, कामदा, शुभा, क्रूरा, पिङ्ग- लादेवी, खङ्गिका, लम्बिका, सती, दंष्ट्राली, राक्षसी, ध्वंसी, लोलुपा, लोहितामुखी १६ दाक्षाद्वि० १। सर्वाशिनी, विश्वरूपा, लम्पटा, आमिषप्रिया, लम्बोष्ठी, दीर्घदंष्ट्रा, लम्बजानुः, प्रहारिणी ८ दाक्षायिकाप्र० । गजकर्णा, अश्वकर्णा, महाकाळी, सुभीषणा, वातवेगरवा, घोरा, घना, घनरवा, घोरघोषा, महाघण्टा, सुघण्टा, घण्टिका, घण्टेश्वरी, महघोरा, अ- घोरा, अतिघोरिका १६ दाक्षायिकाद्वि०२ । अतिघण्टा, अति- घोरा, कराला, करभा, विभूतिः, भोगदा, कान्तिः, शङ्खि-
यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३८७
नी८ चण्डाप्र०। पत्रिणी, गान्धारी, योगमाता, सुपीवरा, उत्तालका, उन्मुक्ता, वीरा, संहारी, रमणी, फलहारी, जीवहारी, स्वेच्छा- हारी, तुण्डिका, रेवती, रोहिणी, सङ्गा १६ चण्डाद्वि० ३। च- ण्डी, चण्डमुखी, चण्डा, चण्डवेगा, महारवा, भ्रुकुटी, चण्ड- रूपा, चण्डभ्रूः ८ चण्डायिकाप्र० । चण्डघ्राणा, चला, चलजिह्वा, चलेश्वरी, चलवेगा, महाकाया, महामाया, विद्युता, कङ्काली, कृशाङ्गी, किंशुका, चण्डघोषिका, महाहासा, महारावा, चण्डभा, अनङ्गचण्डिका १६ चण्डायिकाद्वि० ४। चण्डाक्षी, कामदा, शू- करा, कुक्कुटानना, गान्धारी, दुन्दुभिः, दुर्गा, सौमित्रा, ८ हराप्र० । अमृतोद्भवा, महालक्ष्मीः, वर्णदा, जीवरक्षिणी, हरिणी, क्षीणजीवा, चन्द्रवक्त्रा, चतुर्भुजा, व्योमचारी, व्योमरू- पा, व्योमव्यापी, शुभोदया, गृहचारी, सुचारी, विषाहारी, विषान्तिका १६ हराद्वि०५। जम्भा, अच्युता, कङ्कारी, देविका, दुर्धरा, वहा, चाण्डिका, चपला ८ हरायिकाप्र० । चण्डिका, चामरी, भण्डिका, शुभानना, पिण्डिनी, मुण्डिनी, मुण्डा, शाकिनी, शार्ङ्गरी, कर्तरी, हर्चरी, भामिनी, यज्ञदायिनी, यमदंष्ट्रा, महादंष्ट्रा, कराला १६ हरायिकाद्वि० ६ । विकराली, कराली, कालजङ्घा, यशस्विनी, वेगा, वेगवती, विद्या, वे- दाङ्गा,८ शौण्डाप्र०। वज्रा, शङ्खवती, शङ्खा, अबला, एकबला, बला, अतिबला, लोला, कुम्भिनी, स्तम्भिनी, अञ्जनी, मोहि- नी, माया, विकटाक्षी, नली, कल्लोला १६ शौण्डाद्वि० ७। दन्तुरा, रौद्रभागा, अमृता, सुकुला, चलजिह्वा, अर्धनेत्रा, रूपिणी, दारिका ८शौण्डायिकाप्र०। खादका, रूपनाशा, सं- हारी, अक्षया, अन्तका, कण्डनी, पेषणी, महाग्रामा, कृ- तान्तिका, दण्डिनी, किङ्करी, विम्बा, वर्णिनी, अमलाङ्गिनी,
विद्राणी, द्राविणी, १६ शौण्डायिकाद्वि० ८। प्लवनी, प्लावनी, शोभा, मन्दा, मदोत्कटा, मदा, क्षया, महादेवी ८ प्रमथाप्र०। कामसन्दीपनी, अतिरूपा, मनोहरा, महावशा, मदग्राहा, विह्वला, मदविह्वला, अरुणा, घोषणी, दिव्या, रेवती, भाण्डनायिका, स्तम्भनी, घोररक्ताक्षी, घोररूपा, सुघोषणा १६ प्रमथाद्वि० ९। घोरा, घोरतरा, अघोरा, अतिघोरा, अघनायिका, धावनी, क्रोष्टुकी, मुण्डा ८ प्रमथायीप्र० । भीमा, भीमतरा, अभीमा, शस्त्री, सुवर्चला, स्तम्भनी, मोहनी, रौद्री, रुद्रवती, अचला- चला, महाबला, महाशान्तिः, शिवाशीला, शिवाशिवा, बृ- हत्कुक्षी, महानासा १६ प्रमथायीद्वि० १०। कालकर्णी, कराला, कल्याणी, कपिला, शिवा, इष्टिः, तुष्टिः, प्रतिष्ठा ८ मन्मथाप्र०। शान्तिः, तुष्टिकरी, पुष्टिः, जया, श्रुतिः, धृतिः, कामदा, शुभदा, सौम्या, तेजनी, कामतन्त्रिका, धार्मिकी, धर्मिणी, शीला, पापहा, धर्मवर्धनी १६ । मन्मथाद्वि ११ । धर्मरक्षा, निवाता, धर्मा, धर्मवती, सुमतिः, दुर्मतिः, मेधा, विमला ८ मन्मथायिका- प्र० । शुद्धिः, बुद्धिः, मतिः, कान्तिः, वर्तुला, मोहवर्धनी, बला, अतिबला, भीमा, प्राणवृद्धिकरी, निर्लज्जा, निर्गुणा, मन्दा, सर्वपापक्षयङ्करी, कपिला, अतिविधुरा १६ मन्मथायिकाद्वि० १२। रक्ता, विरक्ता, उद्वेगा, शोकवर्धनी, कामा, तृष्णा, क्षुधा, मो- हा ८ भीमाप्र० । जया, निद्रा, अभया, आलस्या, सुतृष्णा, रोदनी, दरा, कृष्णाकृष्णाङ्गिनी, वृद्धा, अशुद्धोच्छिष्टाशनी, तृषा, कामदा, भोगिनी, दग्धा, दुःखदा, सुखदा १६ भीमा- माद्वि० १६ । आनन्दा, सुनन्दा, महानन्दा, शुभङ्करी, वीत- रागा, महोत्साहा, जितरागा, मनोरमा ८ भीमायिकाप्र०। मनो- न्मनी, मनःक्षोभा, मदा, उन्मादा, मदाकुला, मदोद्गर्भा,
यात्राप्रकरणे लिङ्गोद्धारगोक्तजवाभिषेकप्रयोगः । ३८९ यद्भागमा, कानानन्दा, सुविद्वला, महावेगा, सुवेगा, महाभोगा, क्षयावहा, क्षामणी, क्षापणी, चक्रा १६ भीमायिकाद्वि० १४। योगावेगा, सुवेगा, अतिवेगा, सुवासिनी, देवी, मनोरथावेगा, रुद्रावर्त्तवनी, मतिः ८ शकुनान०। रोधनी, क्षोभनी, बाला, अ- तिकोपा, सुत्रोधिणी, विद्युता, त्रासिनी, मनोवेगा, सुचाप- ला, विद्युज्जिह्वा, महाजिह्वा, भुकुटीकुटिलानना, स्फुरज्जवा- ला, महाज्वाला, सुज्वाला, क्षयान्तिका १६ शकुनाद्वि० १५। ज्वालिनी, भस्माङ्गी, भस्मान्तका, अन्तका, भाविनी, प्रजा, विद्या, ख्यातिः ८ शकुनायिकाप्र० । उल्लेखा, पताका, भोगा, भोगवती, खगा, योगध्रता, योगमाता, योगारूपा, योगपारगा, ऋद्धिः, बुद्धिः, धृतिः, कान्तिः, स्मृतिः, साक्षाच्छ्रुतिः, धरा १६ शकुनायिकाद्वि० १६। परेष्टा, परादित्या, अमृता, फल- नाशिनी, हिरण्याक्षी, सुवर्णाक्षी, कपिञ्जला, कामरेखा ८ सुमतीप्र० । रत्नदीपा, वसुदीपा, रत्नदा, रत्नमालिनी, रत्नशोभा, सुशोभा, महाशोभा, महाद्युतिः, शवरी, शाम्बरी, ग्रन्थिपादा, ग्रन्थिकरर्णा, ग्रन्थिकगनना, हयग्रीवा, हयजिह्वा सर्वग्रासा १६ सुमतीद्वि० १७। सर्वाशी महाभक्षा, महादंष्ट्रा, अतिरौरवा, स्फुलिङ्गा, विस्फुलिङ्गा, कृतान्ता, भास्करानना, ८ सुमत्य्यायिकाप्र० । रागा, रागवती, क्रोधा, महाक्रोधा, रौरवा, क्रोथनी, मर्दनी, कलहा, कलहावती, कलान्तिका, चतुर्भेदा, दुर्गा, दुर्गमानगा, नाली, कुनाली, सौम्या, १६ सुमत्य्यायि- काद्वि० १८। पाटली, पाटवी, पाटी, विटिपिटा, कङ्कटा, सुघटा, प्रघटा, घटोद्भवा ८ गोपाप्र० । नादाक्षी, नादरूपा, सर्वाकारा, सर्वांगमा, सर्वगमा, अग्रचारी, सुचारी, चण्डनाडी, सुवाहिनी, सुयोगा, वियोगा, हंसाक्षी, विलासिनी, सर्वगा, सुविरावा,
३९० वीरमित्रोदयस्य राजनीतिप्रकाशे बन्धनी १६ गोपाद्वि०१९। भेदिनी, छेदिनी, सर्वकारी, क्षुधाशनी, उच्छुष्मा, गान्धारी, भस्माशी, वडवानला ८ गोपायिकाम०। अ- न्ववज्वालिनी, ज्वाला, दीपा, क्षामा, अन्तरिक्षा, हृल्लेखा, हृद्र- मा, मायिकापरा, आमयासादिनी, भिल्ली, सह्यासह्या, सरस्वती, रुद्रशक्तिः, महाशक्तिः, महामोहा, रोदिनी १६ गोपायिका- द्वि० २०। नन्दिनी, निवृत्तिः, प्रतिष्ठा, विद्यानाशी, खग्रसिनी, चामुण्डा, प्रियदर्शिनी ८ नन्दाप्र० । गुह्या, नारायणी, मोहा, प्रज्ञा, वज्रिणी, कङ्कटा, काली, शिवा, घोषा, वीरा, माया, कामेशी, वाहिनी, भीषणा, स्वर्गा, माला १६ नन्दाद्वि० २१। विनायकी, पूर्णिमा, रङ्गिणी, कूर्दनी, इच्छा, कपालिनी, दीप- नी, जयन्तिका ८ नन्दायिकाप्र० । पावनी, अम्बिका, सर्वाशा, पूतना, छागली मोदिनी, लम्बोदरी, संहारी, कालिनी, कुसुमा, शुक्रा, तारा, ज्ञाना, क्रिया, गायत्रिका, सावित्री १६ नन्दायि- काद्वि० २२। दन्तुरी, फेत्कारी, क्रोधहंसा, पडङ्कुला, आनन्दा, सुदुर्गा, संहारी, अमृता८पितामहीप्र० । कुलान्तिका, अनला, प्रचण्डा, मर्दिनी, शुभा, सर्वभूताभया, वडवामुखी, लम्पटा, पन्नगा, कुसुमा, विपुलान्तिका, केदारा, कूर्मा, दुरिता, मन्द- रोदरी, खड्गचण्डा १६ पितामहीद्वि० २३ । वज्रा, मन्मथा, चोरा, विकारा, रिपुभेदिनी, रूपा, चतुर्भुजा, योगा, ८ पितामहायिकाम० । भूताभया, महाबाला, खर्परा, भस्मा, कान्ता, सृष्टिः, द्विभुजा, ब्रह्मरूपिणी, सद्यःफेत्कारिका, कर्ण- मोटी, महामोहा, महामाया, गान्धारी, पुष्पमालिनी, शब्दायी, सुमहाघोषा १६ पितामहायिकाद्वितीयावरणमिति २४। एवं सर्वा देवताः प्रतिष्ठाप्य शिवमनोन्मनीमनोन्मनदेवानां पूर्वो- क्तमन्त्रैरन्यासां नाममन्त्रैरावाहनपूर्वोक्तध्यानपूर्वकं षोडशो-
यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः। ३९१ पचारैः छत्रचामरादर्शादिराजोपचारैश्च यथाविभवं स्थापन- क्रमेण काण्डानुसमयेन पदार्थांनुसमयेन वा यथाशक्ति पूजनं कृत्वा सपत्नीकयजमानसहितः पुष्पाञ्जलिं दत्त्वा नमोऽन्तै- र्नाममन्त्रैः प्रत्येकं पायसबलिं च दत्त्वा दण्डवत्प्रणमेदाचा- र्यः । अस्मिन्नेव च समये कैश्चित्सहायैः सहितः पुरोहितो रुद्रक्षेत्रे तदभावे रुद्राभिषेकार्थमेव कृते प्रतिष्ठापितमण्डपदेवते मण्डपे बाणलिङ्गमूर्तिं महादेवं लिङ्गपुराणगतेन विष्णुप्रोक्तेन भवादिशिवनामसहस्रेण यथाविभवं सम्पूज्य सपत्नीकयजमा- नसहितः पुष्पाञ्जलिं दत्त्वा क्षीरेण दध्ना पञ्चगव्येन वा पूरितं ताम्रमयं मृन्मयं वा कलशसहस्रं पूर्वोक्तविधिना तदग्रे स्थापयित्वा सर्वेषु कलशेषु ब्रह्मकूर्चान्निक्षिप्य तत्कलशस्थितक्षी- रादिना ब्रह्मकूर्चैस्तमेव महादेवं रुद्राध्यायं पठन्नभिषेचये- त् । ततो महादेवस्यानुज्ञया तदभिषेकावशिष्टेन क्षीरादिना “ॐ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वेभ्यः शर्वस- र्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः” इत्यघोरमन्त्रेण, “त्र्यम्बकं यजा- महे सुगन्धिं पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमा- मृतात्” इति त्र्यम्बकमन्त्रेण वा राजानमभिषिञ्चेत्पुरोहित एव । अघोरमन्त्रस्य सांहितीर्देवता उपनिषद ऋषयः रुद्रो देवता स्वरा- डनुटुप्छन्दः राज्ञोऽभिषेके विनियोगः । त्र्यम्बकमन्त्रस्य वसिष्ठ ऋषिर्मृत्युञ्जयरुद्रो देवताऽनुष्टुप् छन्दः । विनियोगः स एव । ततः प्रधानमण्डपे पूर्वाग्नेयादिदिग्विदिग्गतेष्वष्टसु कुण्डेषु स्थण्डि- लेषु वा ब्रह्मसहिता होतारोऽष्टौ पूर्वेशान्यन्तरालगते कुण्डे स्थ- ण्डिले वा आचार्यो नृप एव पुरोहितो वा ब्रह्मसहितो यथास्वगृह्य- मग्निप्रतिष्ठादिप्रधानहोमप्राचीनमङ्गकाण्डं कृत्वा प्रधानहोमसमये अघोरमन्त्रेण त्र्यम्बकमन्त्रेण वा घृतपलाशसमिदाज्यचरुलाजशा-
३९२ वीरमित्रोदयस्य राजनीतिप्रकाशे लिनीवारतण्डुलैः प्रतिद्रव्यमष्टोत्तरसहस्रमष्टोत्तरशतं वाऽऽहुती- र्जुहुयुः। मन्त्रगोत्रऋषिदेवताच्छन्दांस्युक्तान्येव। जयाभिषेकाङ्गहोमे विनियोग इति विशेषः । अन्ते च स्वाहाकारः । एवं सर्वत्र । तत्र याम्ये होत्रा कृष्णवाससा भवितव्यम् । तत्तद्वेदशाखाग- तान्यभिमुखानि तुलादानादिप्रयोगेषु द्रष्टव्यानि विस्तरभयान्नो- च्यते । होमसमये द्वारजापकजप्यानि तत्तद्वेदगतानि शान्ति- सूक्तान्यपि तत्रैव द्रष्टव्यानि । यद्वा प्रतिकुण्डं भिन्नभिन्नाः प्र- धानहोममन्त्राः । यथा- “ॐतत्पुरुषाय विद्महे महादेवाय धीम- हि । तन्नो रुद्रः प्रचोदयात्” इतिपुरुषमन्त्रः प्राक्कुण्डे । अस्य सांहितीर्देवता उपनिषद ऋषयः, रुद्रो देवता, गायत्रीछन्दः, विनि- योगः प्राग्वत् । एवमग्रेऽपि । “ॐजातवेदसे सुनवामसोममराती- यतो निदहाति वेदः । स नः पर्षदतिदुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः” इत्याग्नेये “रुद्रो वा एष यदग्निः” इति श्रुतेश्च रौद्रो मन्त्रः । अस्य काश्यपो जातवेदा अग्नित्रिष्टुप् । अघोरेभ्य इत्याद्यघोरमन्त्रः प्रागुक्त एव दक्षिणे । “ॐनिशि निशि जय स्वाहा खड्गराक्षसभेदन। रुधिराज्यार्द्रनिर्ऋत्यै स्वाहा नमः स्वधा नमः” इति पौराणो नैर्ऋतो मन्त्रो नैर्ऋत्ये । “ॐ नमोऽस्तु वामदेवाय नमो ज्येष्ठाय शूलिने। रुद्राय कालरूपाय कलाविकरणाय च ॥ बलाय बलप्रमथनाय सर्वभूतदमनाय च । मनोन्मनाय देवाय मनोन्मन्यै नमोनमः ॥” इतिमन्त्रः पौराणः पश्चिमे । ॐसमीर समीर स्वाहा स्वधा नमो नमः” इति पौराणो मन्त्रो वायव्ये । “ॐसद्योजातं प्रपद्यामि सद्योजाताय वै नमः । भवे भवे नातिभवे भवस्व मां भवोद्भवाय नमः” इति मन्त्र उत्तरे ।
यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३९३ अस्य सांहिती देवता उपनिषदो रुद्रो बृहती । "ॐईशानाय कद्रु- द्राय रुद्राय प्रचेतसे त्र्यम्बकाय शर्वाय । तन्नो रुद्रः प्रचोदयात्" इत्यैशान्ये । अस्य अघोरः कण्वो रुद्रो गायत्री । "ॐईशानः सर्व विद्यानामीश्वरः सर्वभूतानाम् । ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवोम्"इति पूर्वैशान्यन्तरालगते प्रधानकुण्डे। अस्य सांहिती देवता उपनिषदो रुद्रो गायत्री । एवं प्रधानहोमं कृत्वा स्वाहान्तैर्नामभिः प्रत्येकमाज्येनैकैकामाज्याहुतिं स्वकुण्डे जुहुयादाचार्यः पूर्वोक्तमण्डलदेवताभ्यः । ततः स्विष्टकृदादि । अघोरमन्त्रेण प्रायश्चित्ताहुतिपुरःसरं सर्वे पूर्णाहुतिप्राचीनमु- त्तराङ्गकाण्डं कृत्वा राज्ञा दिक्पालादिभ्यो बलिदाने कृते स- र्वैरवशिष्टैर्होमद्रव्यैः पुनः राजानम् अघोरमन्त्रेण त्र्यम्बकम- न्त्रेण वाभिषिञ्चेयुः । ततोऽभिषिक्तेन राज्ञा यथास्वगृह्यं पुण्या- हवाचने कृते, त्र्यम्बकमन्त्रेण हेममयं मृणालयुक्तं कौतुकं रा- ज्ञो दक्षिणकरे बध्नीयादाचार्यः । ततस्तत्रैव महामण्डपे राजा- नमधिवासयेत् । राज्ञा च मूत्रोत्सर्गाद्यावश्यकवर्जं तत्रैवाधि- वस्तव्यम् । ऋत्विग्भ्यश्चाधिवासनदक्षिणा यथाशक्ति देया । गीतवादित्रपुराणादिभिश्च तस्यां रात्रौ जागरणं कार्यम् । उपोषणं च तद्दिने सर्वेषाम् । अशक्तस्य हविष्याशनम् । ततोऽप- रेद्युः प्रातरुत्थाय नित्यकर्म कृत्वा सर्वे स्वस्वकुण्डे यथाशा- खं पूर्णाहुतिं जुहुयुः । अथाचार्यः पुरोहितर्त्विगादिसहितः प्रधानमण्डपादुत्तरतः कृते द्वारदेशात्पदमात्रे निखातैः प्रागादि- क्रमेण पलाशोदुम्बराश्वत्थवटमयैस्तोरणैर्युक्ते दशहस्ते राजा- भिषेकमण्डपे तोरणेषु हेमकुम्भान्निधाय दिग्गजाष्टकं चावा- ह्य सर्वतो दर्भमाला आबध्य द्वारदेशे कुम्भान् संस्थाप्य द्वारादिप्रदेशेषु इक्षुस्तवराजनिष्पावाजाजिधान्यकविकारव- ५०
३९४ वीरमित्रोदयस्य राजनीतिप्रकाशे द्रोक्षीरकुसुम्भपुष्पलवणारूयान्यष्टमङ्गलद्रव्याणि प्रकीर्य सा- धारणविधया च मण्डपप्रतिष्ठां कृत्वा तन्मध्यस्थायां रचि- तस्वस्तिकादिमण्डलायामास्तृतदर्भायां विकीर्णाष्टमङ्गलद्रव्या- यां वेद्यां सुवर्णरूप्यताम्रान्यतरमयं क्षीरिवृक्षजं वा माण्ड- लिकानन्तरजिन्महाराजानां क्रमेणैकसपादसार्द्धहस्तोच्छाया- मं भद्रासनं संस्थाप्य तदुपरि परिहितनववस्त्रं सायुधमलङ्कृतं शुद्धभस्मोद्धूलितसर्वाङ्गं राजानमुपवेश्य तद्वामतस्तत्पत्नीं चोपवेश्य “तन्महेशाय विद्महे वाग्विश्शुद्धाय धीमहि । तन्नः शिवः प्रचोदयात् ॥” इतिशिवगायन्या शिवकुम्भेनाभिषिच्य पूर्वोक्तया गौरीगायत्र्या वर्धन्या चाभिषिच्य शेषकलशैः स्था- पनक्रमेण रुद्राध्यायं पठन्नभिषिञ्चेत्, अघोरमन्त्रेण वा । तदा च प्रतिकलशं तदावृत्तिः । अभिषेकश्च कलशनिहितान् कूर्चान् कलशमुखेष्वानीय तद्द्वारा राजमूर्धनि यथोदकं पत- ति तथा कार्यः, कूर्चैः प्रोक्षणं वा । तदा चेतरेऽपि ब्राह्मणाः स्वस्वशाखागतान् “सुरास्त्वामभिषिञ्चन्तु” इत्यादिपौराणांश्चा- भिषेकमन्त्रान् पठेयुः । शङ्खभेर्यादिनानावाद्यशब्दश्च विधेयः । मन्त्र्यादयो राजसेवकाः पौरादयश्च जयादिशब्दै राजानं वर्धयेयुः । ततः कलशान्तर्गतपिष्टौषधिलेपपूर्वकं राजा शुद्धो- दकेन स्नात्वा क्षौमे वाससी परिधाय धृतप्रभूतशुक्लमणिख- चितमुकुटादिदिव्यभूषणनृपचिह्न आचार्यादिभिः प्रणीता- निनयनादौ कर्मशेषे समापिते यथाचारं भस्मधारणं कुर्या- त् । नृपचिह्नानि च नत्रोपकल्पितानि शिविकावैजयन्ती- चन्द्रसमप्रभच्छत्रशङ्खचामरभेर्यादीन्युत्तमानि भूषणानि च प्र- भूतान्याचार्यो राज्ञे दद्यात् । ततः कृतजयाभिषेकप्रतिष्ठा- सिद्ध्यर्थम् अष्टषष्टिपलहेपनिर्मितं नवरत्नालङ्कृतं सुदृढमं
यात्राप्रकरणे लिङ्गपुराणोक्तजयाभिषेकप्रयोगः । ३९५ दशधेनुशतानि सुशोभनं क्षेत्रं प्रत्येकं शतद्रोणमितांस्तिलांस्त- ण्डुलांश्च सोपधानतूलिकाद्युपस्करां शय्याम् अश्वादिवाहनं रथादियानं च आचार्यायामुकशर्मणे दक्षिणामहं सम्प्रददे न ममेति गुरवे दक्षिणां दद्यात् । परिमाणतो मूल्यतश्चैतदर्धमि- तानि तुरङ्गादीनि मिलितेभ्यः सर्वेभ्यो होतृभ्यस्तथैव त- दर्धमितानि सर्वाणि मिलितेभ्यो द्वारजापकेभ्यस्तदर्धमितानि ब्रह्मभ्यो गुरुवदेव दद्यात् । सर्वे च स्वस्त्युक्तिकामस्तुत्यादिपूर्वकं प्रतिगृह्णीयुः । पुरोहिताय च जयाभिषेकाङ्गभूतरुद्राभिषेकप्रति- ष्ठासिद्ध्यर्थं यथाशक्ति सुवर्णादूर्ध्वं हिरण्यं दक्षिणां दद्यात् । रुद्राभिषेकोपस्करं च बाणलिङ्गकलशमण्डपादिकं प्रतिपादयेत् । तत इतरसहायभूतब्राह्मणेभ्योऽपि यथाशक्ति सुवर्णं दक्षिणां द- दद्यात् । दीनानाथादिभ्यश्च यथाशक्ति भूयसीम् । ब्राह्मणभोजनं च सहस्रावरं यथाशक्ति सङ्कल्पयेत् । ततः स्थापितदेवताना- मुत्तरपूजां कृत्वा सर्वाः प्रतिमाः कलशादिसर्वोपस्करयुताः सोपस्करं च मण्डपद्वयमाचार्यहस्ते प्रतिपादयेत् । होमोपक- रणानि स्रुगाज्यचरुस्थाल्यादीनि तत्तद्धोतृहस्ते, हविःशेषांश्च तत्तद्ब्रह्महस्ते प्रतिपादयेत् । ततस्तत्तत्कुण्डस्थितानग्नीन् य- थाविभवं गन्धादिदक्षिणान्तोपचारैः सम्पूज्य नमस्कृत्य सर्वान् प्रदक्षिणीकृत्य "गच्छ गच्छ सुरश्रेष्ठ" इति सर्वान् वि- सर्जयेत् । तत आचार्यादिभिः कर्मणः सम्पूर्णतामच्छिद्रतां च वाचयित्वा राजा आचार्यादिसहितो महादेवस्य महतीं पूजां यथाविभवं महता सम्भारेण रुद्रमन्त्रेण कृत्वा "यस्य स्मृत्या च" इत्याद्युक्त्वा सकलस्वकीयसुहृन्मन्त्रिपरिजनादियुतो भुञ्जीत । त- दिने च न कस्यापि निगडबन्धनादि कुर्यात्पूर्वबद्धांश्च मोचयेदिति। इति जयाभिषेकप्रयोगः ।
३९६ वीरमित्रोदयस्य राजनीतिप्रकाशे एवं षष्ठे दिने जयाभिषेकं सम्पाद्य मङ्गल्यसुस्वप्नदर्शने समीचीने च निमित्ते सति व्रजेदित्युक्तम् । तत्र प्रस्थानतः सप्तमे दिने कियद्दूरे गत्वावस्थेयमित्यपेक्षायाम्— विष्णुधर्मोत्तरे, क्रोशमात्रं ततो गच्छेन्नाधिकं तु कदाचन । गत्वा देशे शुभे तिष्ठेत्पूजयित्वा सुरद्विजान् ॥ ततः क्रमेण गच्छेच्च परदेशं महीपतिः । आत्मसैन्यानुरूपेण कृतरक्षः पथा द्विज ॥ कृतरक्षः सन् आत्मसैन्यस्यानुरूपेण यवसेन्धनधान्यादि- मत्तया योग्येन पथा मार्गेण गच्छेत् । त्रिरात्रमुषितो गच्छेदूभूयो नक्षत्रसम्पदा । नक्षत्रसम्पदेति चन्द्रशुद्धिनिषिद्धयोगकरणादिराहित्योप- लक्षणम् । यवसेन्धनतोयानां रक्षको विषदूषणात् । परानभिमुखो गच्छेत्प्रभूतयवसेन्धनः ॥ इति । मनुः, कृत्वा विधानं मूले तु यात्रिकं च यथाविधि । मूले, मूलभूते स्वदेशे । विधानं, तद्रक्षणार्थं सैन्यस्थापनादि । उपगृह्यास्पदं चैव चारान् सम्यग्विधाय च ॥ संशोध्य त्रिविधं मार्ग षड्विधं च बलं स्वकम् । साम्परायिककल्पेन यायाद्रिपुपुरं प्रति ॥ त्रिविधं मार्ग, जलस्थलवनरूपं मार्गम् । षड्विधं बलं, 'मौलं च भृतकं चैव”इत्यादिनाभिहितम् । साम्परायिककल्पेन, [द्धकल्पेन ।
यात्राप्रकरणे कालविशेषेण सेनायां विशेषः । ३९७ शत्रुसेविनि मित्रे च गूढ युक्ततरा भवत् । गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ इति । मत्स्यपुराणे तु कालविशेषेण सेनायां विशेष उक्तः— पदातिनागबहुलां सेनां प्रावृषि योजयेत् । हेमन्ते शिशिरे चैव रथवाजिसमाकुलाम् ॥ खरोष्ट्रबहुलां सेनां तथा ग्रीष्मे नराधिपः । चतुर्विधबलोपेतां वसन्ते वा शरद्यथ ॥ सेना पदातिबहुला यस्य स्यात्पृथिवीपतेः । अभियोज्यो भवेत्तेन शत्रुविषयमाश्रितः ॥ गम्ये वृक्षावृते देशे स्थितं शत्रुं तथैव च । किञ्चित्पङ्के तथा यायाद्बहुनागो नराधिपः ॥ रथाश्वबहुलो यायात् शत्रुं समपथाश्रयम् । जलाश्रयं नौबहुलस्तथा राजा रिपुं जयेत् ॥ खरोष्ट्रबहुलो राजा शत्रुं च वनसंस्थितम् । न वनस्थोऽभियोज्योऽरिः सदा प्रावृषि भूभुजा ॥ हिमपातयुते देशे स्थितं ग्रीष्मेऽभियोजयेत् । यवसेन्धनसंयुक्तं काले पार्थिव हैमने ॥ शरद्वसन्तौ धर्मज्ञ कालौ साधारणौ मतौ । विज्ञाय राजा हितदेशकालौ दैवं त्रिकालं च तथैव बुद्ध्या । यायात्परं कालविदां मतेन सञ्चिन्त्यमानं द्विजमन्त्रविद्भिः॥इति। विष्णुधर्मोत्तरे, राम उवाच । साङ्ग्रामिकमहं त्वत्तः श्रोतुमिच्छामि भूभुजाम् । सर्वं वेत्सि महाभाग त्वं देव परमेष्ठिवत् ॥
३९८ वीरमित्रोदयस्य राजनीतिप्रकाशे पुष्कर उवाच । द्वितीयेऽहनि सङ्ग्रामो भविष्यति यदा तदा । गजाश्वान् स्नापयेद्राजा सर्वौषधिजलैः शुभैः ॥ गन्धमाल्यैरलङ्कुर्यात् पूजयेच्च यथाविधि । नृसिंहं पूजयेद्विष्णुं राजलिङ्गान्यशेषतः ॥ छत्रं ध्वजं पताकां च वर्म चैव महाभुज । आयुधानि च सर्वाणि तथा पूज्यानि भूभुजा ॥ तेषां सम्पूजनं कृत्वा रात्रौ प्रमथपूजनम् । कृत्वा तु प्रार्थयेद्राजा विजयायेतराय वा ॥ प्रमथांश्च सहायार्थे धरणीं च महीभुजम् । भिषक्पुरोहितामात्यमन्त्रिमध्ये तथा स्वपेत् ॥ संयतो ब्रह्मचारी च नृसिंहं संस्मरन् हरिम् । रात्रौ दृष्टे शुभे स्वप्ने समरारम्भमाचरेत् ॥ रात्रिशेषे समुत्थाय °स्नातः सर्वौषधीजलैः । पूजयित्वा नृसिंहं तु वाहनाद्यमशेषतः ॥ पुरोधसा हुतं पश्येज्ज्वलितं जातवेदसम् । पुरोधाः पूर्ववत्तत्र मन्त्रांस्तु जुहुयात्पुनः ॥ दक्षिणाभिः शुचिर्विप्रान् पूजयेत्पृथिवीपतिः । ततोऽनुलिम्पेद्गात्राणि गन्धद्वारेति पार्थिवः ॥ चन्दनागुरुकर्पूरकान्तकालीयकैः शुभैः । मूर्ध्नि कण्ठे समालभ्य रोचनां च तथा शुभाम् ॥ आयुष्यं वर्चसं चैव मन्त्रेणानेन मन्त्रितम् । अलङ्करणमाबध्याच्छ्रियं धातुरितिस्रजम् ॥ या ओषधय इत्येवं धारयेदोषधीः शुभाः । नवो नवेति वस्त्रं च कार्पासं बिभृयाच्छुभम् ॥
ऐन्द्रायेति ततो वर्म धन्वनागेति वै धनुः । ततो राजा समादद्यात्सशरं त्वाभिमन्त्रितम् ॥ कुञ्जरं वा रथं वाश्वमारुहेदभिमन्त्रितम् । आरुह्य शिबिराद्राजा विनिष्क्रम्य समे शुभे । देशे त्वदृश्यः शत्रूणां कुर्यात्प्रकृतिकल्पनाम् ॥ इति । अथ पुरोहितकर्तृकमाश्वलायनोक्तं सन्नहनं राजधर्म- त्वादुच्यते । सङ्ग्रामे समुपोढे राजानं सन्नाहयेदात्वाहार्षमन्तरेधीति पश्चाद्रथस्यावस्थाय जीमूतस्येव भवति प्रतिकमिति कवचं प्रयच्छेदृत्तरया धनुरुत्तरां वाचयेत्स्वयं चतुर्थी जपेत्पञ्चम्ये- षूधि प्रयच्छदाभंप्रवर्तमान षष्ठीं सप्तम्यामश्वानष्टमामिषूनवेक्षमा- णं वाचयत्यहिरिवभोगैः पर्येति बाहुमिति तलं नह्यमानम- थैनं सारयमाणमुपारुह्याभीवर्त्तं वाचयति प्रयो वां मित्राव- रुणेति च द्वे अथैनमन्वीक्षेताप्रातिरथासासौपर्णैः प्रधारयन्तु मधुनो घृतस्यैतत्सौपर्णं सर्वा दिशोऽनुपरि यायादादित्यमौश- नसं वावस्थाय प्रयोधयेदुपश्वासय पृथिवीमुत द्यामिति तृचेन दुन्दुभिमभिमृशेदवस्सृष्टा परापतेतीषून्विसर्जयेद्यत्र बाणाः सम्प- तन्तीति युध्यमानेषु जपेत्संशिष्याद्वा संशिष्याद्वा । इति । ( आ० गृ० सू० अ० ३ । कं० १२ । ) अस्यार्थः । समुपोढे उपस्थिते । सन्नाहयेत्, पुरोहित इति शेषः। आत्वेति सूक्तं, जपेदितिशेषः। पादग्रहणेन ऋग्ग्रहणे प्राप्ते- ऽप्यत्र सूक्तग्रहणमितिवृत्तिकृत्। जीमृतेति, अस्य सूक्तस्याद्ययेति- शेषः, राज्ञे इति च शेषः । उत्तरया “धन्वनागा”इति धनुः प्रय- च्छेत् । उत्तरां “वक्ष्यन्ती वेदा”इति वाचयेत्, राजानमितिशेषः । स्वयं पुरोहितः “ते आचरन्ति”इति जपेत् । पञ्चम्या “बह्वीनां पि-
४०० वीरमित्रोदयस्य राजनीतिप्रकाशे
ता” इति इषुधिं प्रयच्छेत् । इषवो धीयन्ते यत्र स इषुधिः। यथेष्टदिग- भिमुखगमने “रथे तिष्ठन्” इति जपेत् । सप्तम्या “तीव्रात् घोषान्”, इति अश्वाननुमन्त्रयेत । अष्टमीं “रथवाहनम्” इति इषूनवेक्षमाणं राजानं वाचयेत् । ज्याघातपरित्राणं तलमुच्यते । तेन नह्यमान- मेतां वाचयेत् । सारथिना सारयमाणं राजानं रथे आरुह्य “अभीवर्तेन” इति सूक्तं वाचयेत् । प्रयो वामित्यृचौ च । एनं राजानमन्वीक्षेत एतैः सूक्तैः । “आशुः शिशान” इत्यम- तिरथं सूक्तम् । “शास इसेति” सूक्तं शासः । सौ- पर्णसूक्तानां बहुत्वार्द्विशेषमाह-प्रथारेति । एतन्सूक्तं सौ- पर्णं भवति नान्यत् । अथ राजा सर्वदिशो रथेना नुक्रमेण गच्छेत् । यस्यां दिश्यादित्यस्तां दिशमास्थायाहनि चेत्, रात्रौ चेद्यस्यां दिशि शुक्रस्तां दिशं परिगृह्य योधयेद्राजा । ना- पि प्रत्यादित्यं नापि प्रतिशुक्रमित्यर्थः । उपश्वासयेत्यादौ राजा कर्त्ता । यत्र बाणा इत्यत्र तु पुरोहितः कर्त्ता । संशि- ष्याद्वा । अथ वा पुरोधा आचक्षीत एतस्मिन् काले इयमृक्तवे- ति । यथा आत्वा हार्षमन्तरेधीतिसूक्तं पश्चाद्रथस्यावस्थाय ब्रूहि, जीमूतस्येति कवचं गृहाणेत्येवमादि । अध्यायान्तलक्ष- णार्थं द्विर्वचनमिति । मनुः, दण्डव्यूहेन तं मार्गं यायात्तु शकटेन वा । वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥ यतः शङ्केत सभयं ततो विस्तारयेद्बलम् । पद्मेन चैव व्यूहेन निवसेत सदा स्वयम् ॥ सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् । भयं यतो वा शङ्केत तां प्राचीं कल्पयेद्दिशम् ॥
-like curve, and goes down. It does NOT have a separate vertical bar!
So in line 20, why would there be a vertical bar?
Wait! What if the word is: कदाचित्?
Wait, look at काहाचित्: is the first part क? Yes.
Is the next stroke an 'ा'?
Wait, could it be कर्हिचित्?
Wait, what if it's काहाचित्?
Let's look at the letter again:
Wait, could it be:
न व्यूह कल्पना कार्या राज्ञा भवात् काहाचित् ।
Wait, is that काहाचित्? Let's check the characters:
क + ा + ह + ा + चि + त् = काहाचित्.
Wait, what if it's कदाचित् with a broken type?
If someone typeset it, why would they typeset काहाचित्?
Could it be कश्चित्? No.
Could it be काहिचित्?
Wait, look at the letter after भवात्:
Is it क? Yes.
Then ा?
Wait, could it be क ो ऽ पि? No.
What if it IS काहाचित् (a misprint
४०२ वीरमित्रोदयस्य राजनीतिप्रकाशे स्वयं राज्ञा न योद्धव्यमपि सर्वास्त्रशालिना । नित्यं लोके हि दृश्यन्ते शक्तेभ्यः शक्तिमत्तराः ॥ सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः । भग्नसन्धारणं तत्र योधानां परिकीर्त्तितम् ॥ प्रधानभङ्गे सैन्यस्य नावस्थानं विधीयते । तत्र, क्रोशमात्रावस्थिते राज्ञि । युद्धादिना परराष्ट्रग्रहणं राज्ञोऽवश्यकर्त्तव्यमित्याह— याज्ञवल्क्यः, य एव धर्मो नृपतेः स्वराष्ट्रपरिपालने । तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥ इति । शङ्खलिखितौ, राजक्रतुरेवाश्वमेधस्तं नासार्वभौमः प्र- तिपादयितुमर्हति । अश्वमेधेन यक्ष्य इति परविषयमभियाया- द्देशकालशक्तिसम्पन्नः प्रभूतयवसेन्धनोदकाविच्छिन्नसाम्परा- यिकः पथि संविहितसर्वोपकरणो दुर्गासारामात्यदेशदण्डा- क्रन्दाद्यगुणविधिज्ञः पर्षदं प्रति नयवान् विदितमध्वानं हित- मनुक्रामेत् यथाभूमिभागस्तथा विनियोगः श्रेयान् पानभोज- नोपनिवेशस्थानशङ्काप्रतिविधानकुशलो भूपतिरवहितः शत्रु- णा सह युद्ध्येत् । इति । युद्ध्यता राज्ञा किं कर्त्तव्यमित्यपेक्षायाम्— विष्णुधर्मोत्तरे, न भग्नान् पीडयेच्छत्रूनेकायनगता हि ते । मरणे निश्चिताः सर्वे हन्युः शत्रूंश्चमूरपि ॥ शठा भङ्गच्छलेनापि नयन्ति स्वभुवं परान् । तेषां स्वभूमिसंस्थानां वधः स्यात्सुकरस्तदा ॥ न संहतान्न विरलान् योधान् व्यूहे प्रकल्पयेत् ।
यात्राप्रकरणे सैन्यकल्पना । ४०३ आयुधानां तु सम्मर्दो यथा न स्यात्परस्परम् ॥ तथा तु कल्पना कार्या योधानां भृगुनन्दन । भेत्तुकामः परानीकं संहतैरेव भेदयेत् ॥ भेदरक्षापरेणापि कर्त्तव्या संहता तथा ॥ स्वेच्छया कल्पयेद्व्यूहं ज्ञात्वा वाऽरिप्रकल्पितम् । व्यूहं भेदावहं कुर्याद्रिपुव्यूहस्य पार्थिवः ॥ गजस्य देया रक्षार्थं चत्वारस्तु रथा द्विज । रथस्य चाश्वाश्चत्वारश्चत्वारस्तस्य चर्मिणः ॥ चर्मिभिश्च समास्तत्र धन्विनः परिकीर्त्तिताः । पुरतश्चर्मिणो देया देयास्तदनु धन्विनः ॥ धन्विनामनु चाश्वीयं रथांस्तदनु योजयेत् । रथानां कुञ्जराश्चानु दातव्याः पृथिवीक्षिता ॥ पदातिकुञ्जराश्वानां वर्म कार्यं प्रयत्नतः । अवर्मयित्वा यो वाहमात्मानं वर्मयेन्नरः ॥ स राम नरकं याति सुकृतेनापि कर्मणा । शूराः प्राङ्मुखतो देया न देया भीरवः क्वचित् ॥ शूरान् वा मुखतो दत्त्वा स्कन्धमात्रप्रदर्शनम् । कर्त्तव्यं भीरुसङ्घेन शत्रुविद्रवकारकम् ॥ दारयन्ति पुरस्तात्तु विद्रुता भीरवः पुरः । इति । यदि च परबलं दृष्ट्वा शत्रुर्युद्धोपक्रमं न करोति आसनमेव करोति तदा किं कर्त्तव्यमित्यपेक्षायाम्— मनुः, उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् । दूषयेच्चास्य सततं यवसान्नोदकेन्धनम् ॥ भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा ।
४०४ वीरमित्रोदयस्य राजनीतिप्रकाशे समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा ॥ उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम् । युक्ते च दैवे युद्ध्येत जयप्रेप्सुरपेतभीः ॥ उपजपेत्, भेदं कुर्यात् । एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः । तानानयेद्वशं सर्वान् सामादिभिरुपक्रमैः ॥ यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः । दण्डेनाभिप्रसह्यैतांश्छनकैर्वशमानयेत् ॥ इति । सामादीनुपायानभिधाय युद्धं गत्यन्तराभाव एव कर्त्तव्य- मित्यभिप्रायेणोक्तम्— श्रीरामायणे, तत्र साम प्रयोक्तव्यमार्येषु गुणवत्सु च । दानं लुब्धेषु भेदश्च शङ्कितेष्विति निश्चयः ॥ दण्डस्तथैव पात्यश्च नित्यकालं दुरात्मसु । इति । मनौ, साम्ना भेदेन दानेन समस्तैरुत वा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥ अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः । पराजयश्च सङ्ग्रामे तस्माद्युद्धं विवर्जयेत् ॥ इति । तथा, त्रयाणामप्युपायानां पूर्वोक्तानां परिक्षये । तथा युद्ध्येत सम्पन्नो विजयेत रिपून् यथा ॥ संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् । सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥