भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 107, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 107

तं देवं चिन्तयाम्यहम् ॥ इच्छामात्रमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ ११ ॥ यस्य देवादिदेवस्य तं देवं चिन्तयाम्यहम् ॥ यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ॥ १२ ॥ यश्च सर्वमयो नित्यस्तं देवं चिन्तयाम्यहम् ॥ गोणीधरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ॥ १३ ॥ जगन्नाथं विशालाक्षं चिन्तयामि जगद्गुरूम् ॥ शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम् ॥ १४ ॥ युक्तो सर्वात्मनाऽऽत्मानं तं प्रपद्ये प्रजापतिम् ॥ यस्मिन्स्रवन्ति भूतानि तिष्ठन्ति च विशन्ति च ॥ १५ ॥ गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥ यस्मिन्त्रिते तते तन्तौ दृढे स्रगिव तिष्ठति ॥ १६ ॥ सदसद्ग्रथितं विश्वं विश्वांगे विश्वकर्मणि ॥ हरिं सहस्राशिरसं सहस्रचरणेक्षणम् ॥ १७ ॥ प्राहुर्नारायणं देवं यं विश्वस्य परायणम् ॥ अणीयांसमणीयांसं स्थविष्ठञ्च स्थवीयसाम् ॥ १८ ॥ गरीयसां गरिष्ठञ्च श्रेष्ठञ्च श्रेयसामपि ॥ यं वाकेष्वनुवाकेषु निषत्सूपनिषत्स्वपि ॥ १९ ॥ गृणन्ति सत्यकर्म्माणं सत्यं सत्येषु सामसु ॥ चतुर्भिर्भिश्चतुराननं सत्त्वस्थं सात्वतां पतिम् ॥२०॥ यं दिव्यैर्वमर्चन्ति गुह्यैः परपनामभिः ॥ यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् ॥ २१ ॥ इह्यानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् ॥ पुराणः पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु ॥ २२ ॥ क्षये संकर्षणः प्रोक्तस्तमुपास्यमुपास्महे ॥ यमेकंबहुधायातं प्रादुर्भूतमधोक्षजम् ॥ २३ ॥ नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् ॥ यमोद्बहुजगतां कोशं यस्मिन्सन्निहिताः प्रजाः ॥२४॥ यस्मिंल्लोकाः स्फुरन्तीमे जले शकुनयो यथा ॥ ऋतमक्षरमक्षरं ब्रह्म यत्तत्सदसतः परम् ॥ २५ ॥ अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ॥ यं च सुरासुरगन्धर्व्वास्तत्सिद्धांश्चमहोरगाः ॥२६॥ प्रयता नित्यमर्चन्ति परं दुःखभेषजम् ॥ अनादिनिधनं देवमात्मयोनिं सनातनम् ॥ २७ ॥ अप्रतर्क्यमविज्ञेयं हरिं नारायणं प्रभुम् ॥ अतिवाग्बिन्दुकर्म्माणं चाडितिसूर्य्याभ्रितेजसम् ॥ २८ ॥ अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ॥ यं वै विश्वस्य कर्त्तारं जगतस्तस्थुषां पतिम् ॥ २९ ॥ वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ॥ यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिश्चरणौ क्षितिः ॥ ३० ॥ चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम् ॥ यस्य त्रिलोकी जठरे यस्य काष्ठाश्च वाहनाः ॥३१॥ यस्य चासश्च पवनस्तं देवं चिन्तयाम्यहम् ॥ विषये वर्त्तमानानां यं तं वैशेषिकैर्गुणैः ॥ ३२ ॥ प्रादुर्भावप्रयोगोत्तारं तं देवं चिन्तयाम्यहम् ॥ परः कालात्परो यज्ञात्परस्सदसतोश्च यः ॥ ३३ ॥ अनादिरादिर्विश्वस्य तं देवं चिन्तयाम्यहम् ॥ पद्ध्यां यस्य क्षितिर्जाता श्रोत्राभ्याञ्च तथा दिशः ॥३४॥ पूर्वभागे दिवं यस्यतं देवं चिन्तयाम्यहम् ॥ नाभ्यां यस्या


१ 'इह्यामात्रम्' इति ख० । २ 'यस्ततोऽन्यो' इति क० । ३ 'यमाहुर्बहुजगतः कोशं' इति ख० ।