विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 109, कुल 1001 में से
संदर्भ में पढ़ेंदृष्ट्वा तस्य विरेजतुः ॥ मेघान्तरितबिम्बस्य द्वौ भागौ शशिनो यथा ॥ २० ॥ कराभ्यां धारयन्भाति शङ्खचक्रे जनार्दनः ॥ चन्द्रार्कसदृशे राम पादचारीव पर्वतः ॥ २१ ॥ महाजीमूतसंकाशो महाजीमूतसंन्निभः ॥ महाजीमूतवद्रङ्गी महाबलपराक्रमः ॥ २२ ॥ दानवेन्द्रवधायकाङ्क्षी हिरण्याक्षो ययौ ॥ हिरण्याक्षोऽपि तं दृष्ट्वा सूवराहं जनार्दनम् ॥ २३ ॥ दानवाँश्चोदयामास तिर्यग्जातमपूर्व्वकम् ॥ गृह्यतां बध्यतां चैव क्रीडार्थं स्थाप्यतां तथा ॥ २४ ॥ इत्येवमुक्तः संरब्धः पाशहस्तांस्तु दानवान् ॥ जिघृक्षमाणांश्चक्रेण जघान शतशो रणे ॥ २५ ॥ चोदिता दानवेन्द्रेण दान वाः शस्त्रपाणयः ॥ प्रवर्षुस्तथा देवं शस्त्रवर्षेण केशवम् ॥ २७ ॥ दैत्याः शस्त्रनिपातेन देवदेवस्य चक्रिणः ॥ नैव शेकुर्व्व्यथां कर्त्तुं यत्नवन्तोऽपि निर्भयाः ॥ २८ ॥ हन्यमानोऽपि दैत्येन्द्रैर्दानवान्मधुसूदनः॥ जघान चक्रेण तदा शतशोऽथ सहस्रशः ॥२९॥ हन्यमानेषु सैन्येषु हिरण्याक्षः स्वयं ततः ॥ उत्थाय धनुषा देवं प्रवर्षे शरोत्तमम् ॥ ३० ॥ हिरण्याक्षस्तु तान्दृष्ट्वा विफलैँश्च शिली- मुखान् ॥ शिलीमुखानां संप्रध्वन्समपश्यन्महद्भयम् ॥ ३१ ॥ ततोऽखेदंयुयुधे तेन देवदेवेन चक्रिणा ॥ तान्यस्य फलहीनानि चकार भगवान् स्वयम् ॥ ३२ ॥ ततो गदां काञ्चनपट्टनद्धां विष्वपितां किंकिणिजालसंवैः ॥ विक्षिप दैत्यस्य वराह्काय ढुङ्कणदग्धा निपपात सा चा विफलीचकार ॥ ३३ ॥ शक्तिं ततः पट्टिनिद्धमध्यमुल्कानलाभां तपनीयचित्राम् ॥ विक्षिप दैत्यस्स वराह्काय ढुङ्कणदग्धा निपपात सा चा ॥ ॥ ३४ ॥ ततस्त्रिशूलं ज्वलिताग्रशूलं स शीघ्रगं देवगणस्य संख्ये ॥ दैत्याधिपस्तस्य ससर्ज वेगाद्वैवेक्षितः सोऽपि जगाम भूमिम् ॥ ३५ ॥ शङ्खस्वेनताऽपि जनार्दनश्च विद्राव्य दैत्यान्सकलान्महात्मा ॥ सकुण्डलं दैत्यगणाधिपस्य चिच्छेद चक्रेण शिरः प्रसह्य ॥ ३६ ॥ निपातिते दैत्यपतौ स देवः संपूजितः शक्तिपितामहाभ्याम् ॥ मया च सर्वैस्त्रिदशैः समेतैर्जगाम काष्ठां मनसा त्वभीष्टाम् ॥ ३७ ॥ शक्तोऽपि लब्ध्वा त्रिदिवं महात्मा चिच्छेद पश्चान्नवणीयराणवाम् ॥ ररक्ष चेमां सकलां त्रिलोकीं धर्मेण धर्मज्ञभृतां वरिष्ठः ॥ ३८ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु सूवराहाप्रादुर्भावे हिरण्याक्षवधो नाम त्रिप्रञ्चाशत्तमोऽध्यायः ॥ ५३ ॥ ॥ शङ्कर उवाच ॥ हिरण्याक्षे हते दैत्ये भ्राता तस्य महात्मनः ॥ हिरण्यकशिपुर्नाम चकारोग्रं महत्त्पः ॥ १ ॥ दशवर्षसहस्राणि दशवर्षशतानि च ॥ जपो
१ 'निस्तनः' इति ख० । २ 'न्यथाम्' इति ख० । ३ 'वेगादिवेक्षितः' इति ख० ।