विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 110, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥ ३५ ॥
पृ० सं० अ० ५४
पवासानिरतः स्नानैर्मोनाश्रितव्रतः ॥ २ ॥ तपःशमदमाभ्यां च ब्रह्मचर्येण चाऽनघ ॥ ब्रह्मा प्रीतमनास्तस्य स्वयमागत्य भार्गव ॥ ॥ ३ ॥ विमानेनाऽर्कवर्णेन हंसयुक्तेन भास्वता ॥ आदित्यैस्सहितः साध्यैस्सहितो मरुद्भिर्विधिः ॥ ४ ॥ रुद्रैर्विश्वैस्सहाथैश्च यक्षरक्षसपन्नगैः ॥ दिग्भिर्वादिग्भिश्च तथा खेचरैश्च महाग्रहैः ॥ ५॥ निम्नगाभिः समुद्रैश्च मातंगैर्वयसांविधिः ॥ नक्षत्रैश्च मुहूर्त्तैश्च कालस्या वयवैस्तथा ॥ ६ ॥ देवर्षिभिः पुण्यतमैः सिद्धैः सप्तर्षिभिस्तथा ॥ राजर्षिभिः पुण्यतमैर्गन्धर्वाप्सरोगणैः ॥ ७ ॥ जगच्चक्षुः श्रीमान्युक्तः सर्वैर्दिवौकसैः ॥ ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ ८ ॥ ब्रह्मोवाच ॥ प्रीतोस्मि तव भक्तस्य तपसाऽनेन सुव्रत ॥ वरं वृणुष्व भद्रं ते यथेष्टं काममाप्नुहि ॥ ९ ॥ हिरण्यकशिपुरुवाच ॥ न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ॥ न मानुषाः पिशाचा वा हन्युर्मां देवसत्तम ॥१०॥ ऋषयोपि न मां शापं क्रुद्धा लोकापितामह ॥ शपेयुरनुतपसा युक्ता वरमेतद्वृणोम्यहम् ॥ ११ ॥ न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा ॥ न शुष्केण न चाऽऽद्रेण वधं मे स्यात्कथञ्चन ॥ १२ ॥ भवेयमहमेकार्कः सोमो वायुर्हुताशनः ॥ सलिलं चाऽऽन्तरिक्षञ्च नक्षत्राणि दिशो दश ॥ १३ ॥ अहं क्रोधश्च कामश्च वरुणो वासवो यमः ॥ धनदश्च तथाध्यक्षो यक्षः किन्नरपामधिपः ॥ १४ ॥ ब्रह्मोवाच ॥ एते दिव्यवरा स्तात मया दत्तास्तवादृताः ॥ सर्वान्कामानिमांस्तस्मात्प्राप्स्यसि त्वं न संशयः ॥ १५ ॥ शङ्ख उवाच ॥ एवमुक्त्वा तु भगवांञ्जगामाकाशमुत्तमम् स्वमेव हि ॥ वैराजं देवसदनं महर्षिगणसेवितम् ॥ १६ ॥ ततो देवांश्च नागांश्च गन्धर्वा सुमहन्यथा ॥ भगवान् श्रुत्वा पितामहमुखोद्गतान् ॥ ॥ १७ ॥ देवा ऊचुः ॥ वरेणानेन भगवन्बलविष्यति स नोऽसुरः ॥ तन्नः प्रसीद भगवंस्त्वं चाऽऽश्वस्य विचिन्त्यताम् ॥ १८ ॥ भगवान्म र्बभूतानां स्वयम्भूरुदिकृत्प्रभुः ॥ सदा च हव्यकव्यानां चाऽऽयुक्तः प्रकृतिर्ध्रुवः ॥ १९ ॥ शङ्ख उवाच ॥ सर्वलोकहितं वाक्यं शृणु देवः प्रजापतिः ॥ प्रोवाच वरदो वाक्यं सर्वान्देवगणान्नतः ॥ २० ॥ ब्रह्मोवाच ॥ अवश्यं त्रिदशास्तात प्राप्तव्यं तपसः फलम् ॥ तत्प्रमादं वरं विष्णुस्तपसोऽन्ते करिष्यति ॥ २१ ॥ शङ्ख उवाच ॥ एवं श्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः ॥ स्वानि स्थानानि दिव्यानि जग्मुस्ते तु मुदान्विताः ॥ २२ ॥ लघुमात्रं वरे तस्मिन्त्सर्वाः सोऽजयत प्रजाः ॥ हिरण्यकशिपुर्दुष्ट्या वराज्ञानेन दर्पितः ॥ २३ ॥ आश्रमस्थान् महात्मानो मुनीन्क्रूरांश्र्चितवतवान् ॥ सैत्यधर्मरतान्दानान्तुदगधंप्रविभंवंस्तु सः ॥ २४ ॥ देवान्विबुधवर्यांश्च पराजित्य महासुरः ॥ त्रैलोक्यं वशमानीय
॥ ३१ ॥
^१ 'स्नानमौनेनाश्रितव्रतः' इति ख० । ^२ 'नक्षत्रस्तत्त्व' इति ख० । ^३ 'सत्यधर्मरतान्दान्तान्द्वाभ्यामाथ्र्यीभवंस्तु सः' इति ख० ।