विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 127, कुल 1001 में से
संदर्भ में पढ़ेंअङ्गुष्ठमात्रे पुरुषे लब्धन्धे चिन्तयेत् ।। शशाङ्कशतसंकाशं सर्वालङ्कारभूषितम् ।। २३ ।। लब्धलक्ष्य स्तत्रापि बुद्धियोगान्नितिर्भवेत् ।। बुद्धिश्च भगवांत्सूर्यः प्रथमं सूर्यमण्डले ॥ २४ ॥ समग्रमेव संपश्येद्ध्यानयोगेन बुद्धिमान् ॥ सूर्यमण्डलमध्यस्थं शतसूर्यसमप्रभम् ॥ २५ ॥ अङ्गुष्ठमात्रं पुरुषं सर्वाभरणभूषितम् ॥ चिन्तयेत्प्रयतो नाम तत्परः सुसमाहितः ॥ २६ ॥ लब्धलक्ष्य स्तत्रापि नित्यमात्मानमात्मना ॥ आत्मस्थमेव संपश्येद्ध्यानयोगेन भार्गव ॥ २७ ॥ अङ्गुष्ठमात्रं पुरुषं सूर्यबिम्बगतं यथा ॥ ध्यानयोगेन संपश्येत्तथा पश्येत्तथात्मनि ॥ २८ ॥ अधोमुखे हृत्कमले कर्णिकायां भूपूत्तम ॥ लब्धलक्ष्य स्तथापि अव्यक्तं चिन्तयेत्पद्मं ॥ २९ ॥ वह्निन्तश्च सर्वत्र तेजसा तत्र चिन्तयेत् ॥ नैवाङ्केन न चन्द्रेण सर्वं व्याप्तमशेषतः ॥ ३० ॥ लब्धलक्ष्य स्तथापि पुरुषं चिन्तयेत्परम् ॥ शून्यं तु पुरुषं ध्यानं प्रवदन्ति मनीषिणः ॥ ३१ ॥ साकारे बद्धलक्षस्तु शून्यं शक्नोति चिन्तितुम् ॥ अन्यथा तु सुखं स्यान्निरालम्बस्य किं न्ततम् ॥ ३२ ॥ चित्तवृत्तिनिरोधो हि दुष्करः प्रतिभाति मे ॥ तत्र यत्नः सदा कार्यो विजये पवनस्य च ॥ ३३ ॥ चित्तवृत्तिनिरोधेन पवनस्य जयेन च ॥ उपासनाया शून्यस्य निष्फलत्वं विधीयते ॥ ३४ ॥ अरूपगण्यमनसं शब्दस्पर्शविवर्जितम् ॥ सर्वेन्द्रियगुणं गम सर्वस्वं सर्वगं च यत ॥३६॥ ( तं ध्यायन्पुरुषं तस्य ध्यानं शून्यं प्रकीर्तितम् ॥) तस्य स्वरूपं विज्ञाय राम शून्यमुपासतः ॥ ३६ ॥ सर्वसम्बन्धमुक्तस्य निष्फलत्वं विधीयते ॥ ३८ ॥ अखण्डकारिणस्त्वंवं नित्यं भृगुकुलोद्वह ॥ ३७ ॥ संवत्सरशते पूर्णे सत्रिभागं महाभुज ॥ निष्फलत्वं परं स्थानं ध्रुवं भवति भार्गव ॥ ३८ ॥ राम उवाच ॥ संवत्सरशतं पूर्णं त्रिभागसहितं विभो ॥ अजीवतो निष्फलत्वं कथं भवति शङ्कर ॥ ३९ ॥ शङ्कर उवाच ॥ अखण्डकारी भवति यद्येकमापि जन्मनि ॥ जन्मक्रमादवश्यं हि राम जन्मनिजन्मनि ॥ ४० ॥ पूर्णांशं सत्रिभागं ध्रुवं तेन समाः शतम् ॥ अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४१ ॥ अखण्डकारिणो राम प्रवृत्तस्य द्विजन्मनः ॥ अवश्यमेव तत्स्थानं याहिष्णोः परमं पदम् ॥ ॥ ४२ ॥ राम उवाच ॥ अखण्डकारिता प्रोक्ता त्वया देव द्विजन्मनाम् ॥ शूद्रो वा यदि वा नारी कथं स्थानमवाप्नुयात् ॥ ४३ ॥ शङ्कर उवाच ॥ अखण्डकारिणी पत्नी प्राप्नोति परमं पदम् ॥ शूद्रः स्वकर्मनिरतः केशवार्पितमानसः ॥ ४४ ॥ जात्यन्तरमथासाद्य भक्तियोगेन भावितः ॥ अखण्डकारी भवति ततः प्राप्नोति तत्पदम् ॥ ४५ ॥ मार्कण्डेय उवाच ॥ एतावदुक्तं देवेन त्र्यम्बकेण महात्मना ॥ तदा तुष्टेन रामाय रहस्यं
१ कोष्ठान्तर्गतः पाठः बहुपुस्तके नास्ति । २ 'अखण्डकारिणः' इति ख० ।