विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 129, कुल 1001 में से
संदर्भ में पढ़ेंतत्किमर्थं भवता करे ॥ न्यस्तं च तन्मे भगवाँश्चापरत्वं च कीदृशम् ॥ १ ॥ शङ्कर उवाच ॥ माया हि वैष्णवी राम यया संमोहिताः पुरा ॥
देवाश्च ऋषयश्चैव गत्वान्तः प्रणताः स्थिताः ॥ २ ॥ यजतां परमाधारं देवं कमलसंभवम् ॥ भूतमव्यभिविष्ण्वस्य पृष्टं लोकनमस्कृतम् ॥
॥ ३॥ देवा ऊचुः ॥ वासुदेवस्य देवस्य महादेवस्य चाप्यथ ॥ अन्तरं ज्ञातुमिच्छामः कः कस्मादतिरिच्यते ॥ ४ ॥ शङ्कर उवाच ॥ एवमुक्तस्सुरैः
सर्वै ऋषिभिश्च पितामहः ॥ विहस्योवाच तान्सर्वांस्त्वन्तर्गत्वो परस्परम् ॥ ५ ॥ ब्रह्मोवाच ॥ जनयध्वं सुराः सर्वे विरोधमृषिभिस्सह ॥
विरोधे तु समुत्पन्ने तयोर्युद्धं उपस्थिते ॥ ६ ॥ ज्ञास्यध्वमन्तरं देवास्तयोर्नास्त्यत्र संशयः ॥ शङ्कर उवाच ॥ एवमुक्ताः सुराः सर्वे सर्षयश्चैव
गणैस्तदा ॥ ७ ॥ आवयोर्जनयामासुर्बिरोधं भृगुनन्दन ॥ विष्णोरधिक्यमन्विच्छंस्तस्य मायाविमोहिताः ॥ ८ ॥ कृतवानस्मि देवेन त्व
वाक्येन विग्रहम् ॥ प्रभावदर्शनार्थाय त्वावयोर्द्विधे तदा ॥ ९ ॥ आसन्नमभवद्युद्धं सर्वसत्त्वभयङ्करम् ॥ आवयोर्भृगुशार्दूल तदा युद्धे उप
स्थिते ॥ १० ॥ आजगामाथ तं देशं ब्रह्मा सुरगणैर्युतः ॥ देवा ब्रह्मर्षयश्चैव तथा राजर्षयोऽमलाः ॥ ११ ॥ सर्वेषां समवेतानामावयोर्युद्धसंगरे ॥
उवाच वचनं ब्रह्मा सर्वलोकनमस्कृतः ॥ १२ ॥ ब्रह्मोवाच ॥ न कर्तव्यं जगन्नाथौ युद्धं परमदारुणम् ॥ युष्मद्युद्धेन सकलं नश्यतीदं
जगत्त्रयम् ॥ १३ ॥ गृहीतं चापरत्नं यत्स्वयं देवेन चक्रिणा ॥ तदारोपयतां शूली शूलिचापं जनार्दनः ॥ १४ ॥ ज्ञास्यामि चान्तरं देवौ
चापारोपणकर्मणा ॥ शङ्कर उवाच ॥ एवमुक्ते मम कराद्धनुर्जग्राह केशवः ॥ आरोपितं न मे शक्तिः सर्वयत्नेन चाभवत् ॥ १५ ॥ ततश्च
गतमोहेन मया ज्ञातो महेश्वरः ॥ ज्ञात्वा विष्टुष्टचापेन स्तुतश्च भगवांस्तदा ॥ १६ ॥ नमोऽस्तु ते देववराप्रमेय नमोऽस्तु ते सर्वगु
णात्मताय ॥ नमोऽस्तु ते देवगणार्चिताय नमोऽस्तु ते सर्वगुणोत्तराय ॥ १७ ॥ उन्मेषमात्रेण तवाप्रमेय दिनं समग्रं प्रपितामहस्य ॥
निमेषमात्रेण निशा प्रदिष्टा यस्यां समादाय जगत्स शेते ॥ १८ ॥ न कारणं वेत्सि तवेश सृष्टौ संहारकार्ये च तथा न वेद्मि ॥ आद्यं न मध्यं
न तथैव चान्तं त्वमेक ईशः पुरुषः पुराणः ॥ १९ ॥ सर्वेषु भूतेषु तथा स्थितस्त्वं सर्वाणि भूतानि तथा तवेश ॥ भूतान्तरस्थोऽपि न भूतसंस्थ
आश्चर्यमेतन्मम देवदेव ॥ २० ॥ भूतान्तरस्थोपि न भूतनाथः भूताजितैः कर्मभिरायस्ये त्वम् ॥ कर्माणि सर्वाणि जगतस्त्वमस्य धर्मे सदा
यन्महदद्भुतं तत् ॥ २१ ॥ गन्धः पृथ्वियां च रसोऽप्सु देव वायौ यथा स्पर्शगुणस्त्वदीयः ॥ रूपं तथाग्नौ गगने च शब्दो गुणाः समाप्तास्त्व
भूतसंघे ॥ २२ ॥ मनोगतस्त्वं च तथा वितर्को बुद्धौ गतस्त्वं च विनिश्चयोऽत्र ॥ चिद्रूपमात्मन्यथ देवदेव अव्यक्तसंस्थस्य गुणत्रय