विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 144, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥ ४८ ॥
प्र० खं० अ० ८१
प्रतिज्ञाय धनञ्जये ॥ त्वयि नाकमनुप्राप्ते सम्मेयं मयशासनात् ॥ १७ ॥ हिमाचलं तु तेऽभ्यन्ति यत्र बिन्दुसरः सरः ॥ राक्षसाः किङ्करा नाम यत्तस्मान्निर्मिता पुरा ॥ १८ ॥ उक्तं हि ते कालगतं मयैतदायूःप्रमाणं च तथा तवोक्तम् ॥ अतः परं धर्मभृतां वरिष्ठ वदस्व किं ते कथयामि राजन् ॥ १९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० यानकालवर्णनो नामाशीतितमोऽध्यायः ॥ ८० ॥ वज्र उवाच ॥ त्वयोदितानां धर्मज्ञ समासेन पृथक्पृथक् ॥ कालस्यावयवानां च श्रोतुमिच्छामि देवताः ॥ १ ॥ मार्कण्डेय उवाच ॥ पौरुषं यदहोरात्रं श्रुतवानसि यादव ॥ कालात्मा पुरुषस्तस्य सर्वभूतपतिः प्रभुः ॥ २ ॥ कल्पस्य देवतं ब्रह्मा यत्स्येदं सकलं जगत् ॥ क्रमान्मन्वन्तराणां तु मनवस्तु चतुर्दश ॥ ३ ॥ स्वायम्भुवस्तु प्रथमो मनुः स्वारोचिषस्तथा ॥ वैवस्वतस्ततोऽथ सावणिर्ब्रह्मपुत्रस्तथैव च ॥ ४ ॥ धर्मपुत्रो रुद्रपुत्रो दक्षपुत्रश्च यादव ॥ रौच्यो भौत्यश्च विश्वात्मा मनवस्तु चतुर्दश ॥५॥ वज्र उवाचाथ एते भवता प्रोक्ता मनवश्च चतुर्दश ॥ नित्यं ब्राह्मे दिने प्राप्ते एत एव क्रमाद्विज ॥६॥ भवन्त्युतान्ये धर्मज्ञ एतन्मे च्छिन्धि संशयम् ॥ अथवा वर्तमानेऽस्मिन्सम्वता मम कीर्तिताः ॥ ७ ॥ मार्कण्डेय उवाच ॥ एत एव महाराज मनवस्तु चतुर्दश ॥ कल्पेकल्पे त्वया ज्ञेया नात्र कार्या विचारणा ॥८॥ एकरूपास्त्रयः कल्पा ज्ञातव्यास्सर्व एव हि ॥ क्वचित्किंचिदिहास्माञ्च मायया परमेष्टिनः ॥९॥ ज्ञातव्यमेकरूपत्वम्बद्धानां च तथा त्वया ॥ कल्पेकल्पे महाराज मनूनां च विशेषतः ॥ १० ॥ वज्र उवाच ॥ कल्पानां जनसादृश्ये मुक्तिनैवाप पद्यते ॥ कदाचिदपि धर्मज्ञ तत्र पश्यामि कारणम् ॥ ११ ॥ एकस्मिन्भवन्तरे मुक्तिं कल्पेकल्पे गते द्विज ॥ प्रभविष्यज्जगच्छून्यं कालंत्वनादंग भावतः ॥ १२ ॥ मार्कण्डेय उवाच ॥ जीवस्यात्यन्तय सर्गेण नरे मुक्तिमुपागते ॥ अचिन्त्यशक्तिर्भगवान्जाग्रत्यूयते सदा ॥ १३ ॥ ब्रह्मणा सह मुच्यन्ते ब्रह्मलोकमुपागताः ॥ मुज्यन्ते च महाकल्पे तद्विश्याश्चापरे जनाः ॥ १४ ॥ ते प्राप्ताः परमं स्थानं येषां जन्म न विद्यते ॥ समजीवप्रमाणाश्च सर्वे कल्पास्तथा नृप ॥ ब्रह्मलोके विष्णुलोके रुद्रलोके च ये गताः ॥ १५ ॥ विष्णुलोकात्सुभवो रुद्रलोकान्तथैव च ॥ श्वेत द्वीपाद्या ये च तेषां जन्म न विद्यते ॥ १६ ॥ न तु सर्वेषु राजेन्द्र तेषु मुक्तिः प्रकीर्तिता ॥ ब्रह्मलोकोपगैश्चाद्यै ये लोका गन्धर्वगणपाः ॥ १७॥ मयोदितास्तयोगेनत्वा पुनर्जन्म न विद्यते ॥ महाकल्पक्षये जीवाः मवे तं परमेश्वरम् ॥ १८ ॥ प्राप्यापि विनिवर्तन्ते विना ज्ञानेन यादव ॥ भूय एव तदा लोकान्सर्गे सृजति तान्प्रभुः ॥ १९ ॥ कल्पमध्ये तु कल्पान्ते ज्ञानोज्ज्वलकलेवराः ॥ प्राप्नुवन्ति परं स्थानं तद्विष्णोः परमं
॥ ४८ ॥
१ 'कालस्यैव प्रभावतः' इति ख०।