विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 170, कुल 1001 में से
संदर्भ में पढ़ेंप्र० खं०
अ० १६
बि० ध०
॥ ६३ ॥
महत्पदम् ॥ ११८ ॥ ततः कर्तुं यथाशक्त्या भवतां प्रतिपूजने ॥ वरदाः प्रयतिक्ष्यामि तन्मेऽनुज्ञातुमर्हथ ॥ ११९ ॥ भवत्पूजाहितार्थंवास्मिन्युद्धे
विज्ञं सदैव तु ॥ स्वांसवां दिशमधिष्ठाय दिग्पाला दीप्ततेजसः ॥ १२० ॥ उत्सारयन्तु सकलाग्विघ्नान्मे ससुरास्थितान् ॥ अस्माद्देशात्तथापश्यन्तु
यक्ष्मा ब्रह्मराक्षसाः ॥ १२१ ॥ विनायका विग्नकरा ममोया यक्षद्विपो ये पिशिताशनाश्च ॥ सिद्धार्थकैर्वज्रसमानकल्पैर्मया निरस्ताः स्वगृहं
प्रयान्तु ॥ १२२॥ एतावदुक्ता विकिरेत सिद्धार्थकान्दिक्षु तथा विदिक्षु ॥ रक्षोहणं चात्र तथैव मंत्रं वक्त्र्येषुसौरैद्विजपुङ्गवेन ॥ १२३ ॥
सर्वग्रहाणां यजने प्रदिष्टं सर्वौषधैः स्नानमदीनसत्त्व ॥ बीजैः समग्रैश्च तथैव गन्धैर्घृष्टैश्च रत्नैश्च तथा जलैश्च ॥ १२४ ॥ इति श्रीविष्णु
धर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहश्चावाहनमन्त्राध्यायो नाम पञ्चनवतितमोऽध्यायः ॥ ९५ ॥ वज्र उवाच ॥ सर्वेषां तु समाचक्ष्व
गन्धमाल्यं तथैव च ॥ धूपं वस्त्रस्तनैवेद्यं पानं चैव पृथक्पृथक् ॥ १ ॥ होमद्रव्यं तथा मन्त्रं दक्षिणाञ्च भृगूत्तम ॥ एकस्मन् सर्वविद्वह्नल
न्त्वाता वा जगतां पतिः ॥ २ ॥ मार्कण्डेय उवाच ॥ ध्रुवस्थाननिविष्टानां देवानां च महीपते ॥ सर्वासां चन्दनं देयं नित्यमेव पृथक्पृथक् ॥ ३॥
सूर्याय कुङ्कुमं देयं कर्पूरं शशिने तथा ॥ भौमाय चन्दनं रक्तं चाग्रुशं शशजाय च ॥ ४ ॥ जीवाय चन्दनं देयं कुङ्कुमेन विमिश्रितम् ॥
शुक्राय चन्दनं श्वेतं सौरस्त्वथ व मृगोद्भवम् ॥ ५ ॥ कुङ्कुमेन युतं दद्याद्धानवाय मृगोद्भवम् ॥ अगुरुं कुङ्कुमं चौभौ सुर्दया धूमकेतवे ॥ ६ ॥
कुङ्कुमं कृत्तिकानां तु रोहिणीनां मृगोद्भवम् ॥ इल्बलानां च कर्पूरं रौद्रे नागमहं तथा ॥ ७ ॥ आदित्यस्य प्रदातव्याभो कुङ्कुमचन्दनौ ॥
उशीरचन्दनौ देयावश्लेषोपैथ्योस्तथा ॥ ८ ॥ प्रियङ्गुचन्दनौ देयौ तथा भाग्यस्य पार्थिव ॥ अर्यम्णश्च प्रदातव्यौ चन्दनौ
श्वेततक्तकौ ॥ ९ ॥ सावित्रस्य प्रदातव्यं कुङ्कुमं पृथिवीपते ॥ त्वाष्ट्रस्य चन्दनं देयं कुङ्कुमं समुगोद्भवम् ॥ १० ॥ जातीफलयुतं देयं वायव्यस्य
च चन्दनम् ॥ विशाखायाः प्रदातव्यं कुङ्कुमं चन्दनं तथा ॥ ११ ॥ तुरुक्सहितं देयं तथा मैत्राय चन्दनम् ॥ ज्येष्ठायाश्च प्रदातव्यं चन्दनं
कुङ्कुमं तथा ॥ १२ ॥ मूलाय शिशपासारं तथा देयं मृगोद्भवम् ॥ आप्याय कुष्ठसंयुक्तं दातव्यं चन्दनं भवेत् ॥ १३ ॥ वैश्वदेवाय मृगजं
चन्दनागुरुणी तथा ॥ बाह्माय चन्दनं देयं वैष्णवायागुरुस्तथा ॥१४॥ जातीलवङ्ग संयुक्तौ सुपिष्टौ वासवाय तौ ॥ वारुणाय च कर्पूरमाजा
हिर्बुध्न्योस्तथा ॥ १५ ॥ पौष्णाय चन्दनं रक्तमश्विनाय तथा सितम् ॥ याम्यायागुरुसंयुक्तं तथा देयं मृगोद्भवम् ॥ १६ ॥ समानेदनक्षत्रां
कथितं च तथा दिशम् ॥ उत्तराद्यास्तथा देयं चन्दनागुरुणी शुभे ॥ १७ ॥ सागराणां प्रदातव्यं सर्वषामेव चन्दनम् ॥ अलाभे तु तथा देयं