भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 171, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 171

सर्वेषामेव चन्दनम् ॥ १८ ॥ मङ्गल्यं तत्पवित्रं च देवानां दयितं च तत् ॥ धार्यं च देयं तद्विजैंस्तत्र लक्ष्मीः प्रतिष्ठिता ॥ १९ ॥ यद्यद्वृक्षस्या- भिहितं मयैतद्वृक्षस्य वा भूमिपतिप्रधान ॥ तद्देवतायाश्च तदेव देयं दिशस्तथा नात्र विचारणास्ति ॥ २० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अनुलेपकथनो नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥ मार्कण्डेय उवाच ॥ सवर्णानि ग्रहाणां दिशं च जगतीपते ॥ नित्यं देयानि वासांसि पताकाश्च विजानता ॥ १ ॥ भूषणानि च देयानि काञ्चनानि शुभानि च ॥ रत्नचित्राणि रम्याणि यथाशक्त्या नराधिप ॥ २ ॥ ध्रुवस्थाननिविधानां देवतानां महीपते ॥ जातीपुष्पाणि देयानि सर्वषामविशेषतः ॥ ३ ॥ रक्तपद्मानि सूर्यस्य श्वेतपद्मानि चेन्दवे ॥ बन्धूकानि च भौमाय बुधायेन्दीवराणि च ॥ ४ ॥ जीवाय यूथिका पीता सिताय च तथा सिता ॥ बाणपुष्पाणि सौराय राहवे पाटलानि च ॥ ५ ॥ तथा दमनकं देयं केतवे वसुधाधिप ॥ कृत्तिकासु च देयानि राजीवोत्पलानि च ॥ ६ ॥ चम्पकानि च रोहिण्या इल्वलायाः सितोत्पलम् ॥ धत्तूरकाण्यार्द्रायां आदित्यस्य च मल्लिका ॥ ७ ॥ चम्पकान्येव पुष्यस्य जाती स्यात्सार्पि- ङ्ययोः ॥ भाग्यस्य कान्ता दातव्या अर्यम्णश्च सुवर्चला ॥ ८ ॥ सावित्रस्योत्पलंनित्यं बन्धूककुसुमानि च ॥ वायव्यस्य च देयानि सिन्दुवाराणि पार्थिव ॥ ९ ॥ ऐन्द्राग्न्यस्य च देयानि कुरण्डकुसुमानि च ॥ रक्ताशोकस्य पुष्पाणि तथा मैत्रस्य पार्थिव ॥ १० ॥ चम्पकानि च शाक्रस्य तथा देयानि भूपते ॥ मूलस्य च तथा देयं राजन्कृष्णकुहेरु कम् ॥ ११ ॥ कह्लाराणि तथाप्यस्य वैश्वदेवस्य कुञ्जकम् ॥ ब्राह्मस्य जातीपुष्पाणि वैष्णवस्य च चम्पकम् ॥ १२ ॥ पाटला वासवस्यापि वारुणस्योत्पलानि तु ॥ ३ ॥ कँपुष्पाण्य थाप्यस्य तथा देयानि पार्थिव ॥ १३ ॥ आहिर्बुध्न्यस्य देयानि धत्तूरकुसुमानि च ॥ करवीरकुपुष्पाणि तथा पौष्णस्य पार्थिव ॥ १४ ॥ दूतपुष्पाणि देयानि आश्विनस्य नराधिप ॥ नीलोत्पलानि याम्यस्य तथा देयानि भूपते ॥ १५ ॥ समानवेशनक्षत्रकथितानि तथा दिशाम् ॥ उत्तरायाश्च देयानि नागपुष्पाणि पार्थिव ॥ १६ ॥ सागराणां च देयानि कमलानि महीपते ॥ उक्तलाभे प्रदेयानि सवर्णानि नराधिप ॥ स्वकालजानि पुष्पाणि सर्वेषामविशेषतः ॥ १७ ॥ यद्यद्धस्त्याभिहितं मयात्र वृक्षस्य वा भूमिपतिप्रधान ॥ तद्देवतायाश्च तथैव देयं दिशस्तथा नात्र विचारणास्ति ॥ १८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ग्रहर्क्षविशेषपुष्पदेयाध्यायो नाम सप्तनवतितमोऽध्यायः ॥ ९७ ॥ मार्कण्डेय उवाच ॥ ध्रुवस्थाननिविधानां देवतानां महीपते ॥ गुग्गुलुं घृतसंयुक्तं धूपं दद्याद्विचक्षणः ॥ १ ॥ धूपं त्वगुरुकं नमेरुं च तथैवेश्च ॥ भौमाय गुग्गुलं दद्यात्सर्जनं दयाद्बुधाय च ॥ २ ॥ शिलारस्र