विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 215, कुल 1001 में से
संदर्भ में पढ़ेंश्मिसमप्रभैः ॥ कचिद्रलौः कचिद्रोकैः कचिद्द्रपाल राजतैः ॥२४॥ मणिद्रुमसोपानैर्मुक्ताजालविभूषितैः ॥ कचिच्च पुष्पदामाढ्यैर्ध्वजयन्तीयुतैः कचित् ॥ २५ ॥ तस्याविदूरे विपुलं वनं चैत्ररथोद्गमम् ॥ राज्ञः क्रीडावनं रम्यं ददर्श विपुलेक्षणा ॥ २६ ॥ द्रुमैर्बहुविधैर्युक्तं पुष्पधूपफलोपगैः ॥ पद्मिनीभिविचित्राभिः क्रीडाशैलैर्मनोहरैः ॥ २७ ॥ प्रासादैश्च तथा रम्यै रम्यैर्मणिगुणैस्तथा ॥ ततु रम्भावनं दृष्ट्वा सखी वचनमब्रवीत् ॥ २८ ॥ राज्ञः क्रीडावने रम्ये गहनेऽस्मिन्सुलोचने ॥ मायाच्छन्ना निवत्स्यावो यावदस्तमयं रवेः ॥ २९ ॥ ततो गत्वा नरेन्द्रं तं चोद्या तव चिकीर्षितम्॥ अहं त्वां तु नयिष्यामि सविधे तस्य भूपतेः ॥ एवमुक्ता सखीवाक्यं नोदगामास चोर्वशी ॥ ३०॥ इति क्रीडावनं ते च ततोऽवतीर्णे तद्देवरामे सुमनो भिरामे ॥ क्रीडावने तत्र तथोर्वशी सा सूर्यात्मजात्कालं मनसा समेच्छत् ॥ ३१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे क्रीडावनावतरणो नामैकत्रिंशदुत्तरशततमोऽध्यायः ॥ १३१ ॥ मार्कण्डेय उवाच ॥ सूर्यास्तमयमभिच्छन्ती ज्ञात्वा रम्भा तथोर्वशीम् ॥ विनोद्यार्थं हि तस्याश्च दर्शयामास तद्वनम् ॥ १॥ चारुनेत्रे पश्येमं सुभगे चम्पकद्रुमम् ॥ त्वद्गात्रवर्णसदृशैः समन्तात्कुसुमैश्चितम् ॥२॥ इमं च दाडिमं पश्य पुष्पितं वामलोचने ॥ योऽयं बिभर्त्ति कुसुमैस्त्वदीयामधरश्रियम् ॥ ३॥ पश्य कामशराकारं सहकारं मनोरमम् ॥ यत्र चात्मसुखपुत्रा रुद्रास्तस्य महात्मनः ॥ ४ ॥ श्रियं कपोलयोस्तुभ्यमाददानंमनोरमैः ॥ पुष्पैरुपेतां चार्वङ्गि मधूकं पश्य शोभने ॥ ५॥ तत्पयोधरसंकाशौ रस्यैरुपचितं फलैः ॥ पश्य ताल्द्रुमं सौम्ये मनसः प्रीतिवर्धनम् ॥६॥ स्तम्भस्त्वदूरुसंकाशैः कदलीं पश्य शोभने ॥ सुवर्णां चारुसर्वाङ्गी निर्मिता विश्वकर्मणा ॥ ७ ॥ पश्यावमुक्तकलतां कुसुमाढ्यां मनोहराम् ॥ त्वत्केशपाशसंकाशैर्भ्रमरैरुपशोभिताम् ॥ ८ ॥ पश्येमं कुन्दविटपं त्वद्दन्तसदृशैः शुभैः ॥ समन्ता च्छोभितं पुष्पैर्विशालाक्षि मनोहरैः ॥ ९ ॥ पश्य चोत्पलिनीमेतामुत्पलेरुपशोभिताम् ॥ त्वन्नेत्रसदृशैः फुल्लैर्मनोहृदयनन्दनैः ॥ १० ॥ नलिनीं सुभगे पश्य कमलैः पुष्पितैर्युताम् ॥त्वन्निःश्वासगन्धाढ्यैः सौवर्णैश्चैवकेसरैः ॥ ११॥ राजहंसानिमान्पश्य, नलिनीतीरगोचरान् ॥ गमनं सुमनोहारि त्वदीयमित्र शिक्षितान् ॥ १२ ॥ त्वत्करायविधावन्सोम्ये धारयीद्वक्ष पल्लवान् ॥ क्रीडाशैलेममिमं पश्य युक्तं बहुविधैर्द्रुमैः ॥ १३ ॥ क्रीडाशैले चूतगतः कोकिलः कामवर्धनः ॥ कूजयत्यं मनोहरैरिवस्तनेन सहशान्तो ॥ १४॥ क्रीडाशैले नदीं पश्य निःसृतां शीतलोदकाम् ॥ तुल्यं ते मनसा सौम्ये वहन्तीं निर्मलं जलम्॥ १५॥ अहोश्चर्युतं सौम्यं दर्शनीयं वनं बहु ॥ किं तु पश्य विशालाक्षि सूर्योऽस्तमुपगच्छति ॥ १६॥ त्वां तु कामवशां ज्ञात्वा रूपयेव दिवाकरः ॥ संवृतांगुधरो देवस्त्वत्त्वमायाति भामिनि ॥ १७॥ कठोराण्युपि पत्राणि पद्वानानीव सुन्दरि ॥ अस्ततापात्तुरक्तानि राजन्ते शालिवनं