विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 214, कुल 1001 में से
संदर्भ में पढ़ेंवि०ध० ॥ ८३ ॥
प्र० खं० अ० ३१
मातृभः ॥ २४ ॥ कामाग्निमध्ये परिवर्तमानं न याति भस्मत्वमिदं शरीरम् ॥ तस्यैव राज्ञो वदनेन्दुना तत्संरुच्यते मे हृदयस्थितेन ॥ २५॥ नय स्व मां तस्य विशालनेत्रे समीपमेवैव नरेश्वरस्य ॥ इत्येवमुक्ता करुणं हि रम्भा पाणावुपादाय विशालनेत्राम्॥२६॥ बुद्ध्या समुत्प्लुत्य ततोऽन्त- र्हिते जगाम राज्ञो भवनं प्रहृष्टा ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे उर्वशीरम्भासंवादो नाम त्रिंशदुत्तरशततमो- ऽध्यायः॥१३०॥ मार्कण्डेय उवाच ॥ उर्वशी रम्भया सार्द्धं जगाम त्वरितं तदा ॥ कामार्त्ता सिद्धमार्गेण सा ददर्शार्थ नारदम् ॥१ ॥ व्रजन्तं सिद्ध- मार्गेण देवलोकादुपागतम् ॥ सम्पूज्य नारदं सुभ्रूः प्रत्युवाच सत्वरा ॥ २ ॥ तामाह नारदो रम्भे केयं ते प्रस्थिता सखी ॥ रम्भा शापमया त्तस्याः सर्वमेव न्यवेदयत् ॥ ३ ॥ तामाह नारदो भूयः शृणुष्व वचनं मम ॥ उर्वशी गतभावैयं मानुषं तं नरेश्वरम् ॥ ४ ॥ शापेन तुबवेरोर्मोहा दुचितं तत्र वत्स्यति ॥ ५॥ यथा शुभं तथा कार्यं त्वया मे वचनं शुभे ॥५॥ समयेनोर्वशी तस्य वस्तव्यसितेलोचना ॥ समयस्यान्यथा कार्यो यो राजंस्तं निबोध मे ॥ ६ ॥ मेषद्वयं तु पुत्रत्वे पुरा कृतवती शुभा ॥ तंत्रितयं शयनाभ्याशे स्थापनीयं सुलोचने ॥ ७ ॥ आहारं घृतमात्रं च कर्तव्यमनया तथा ॥ न द्रष्टव्यस्तथा नग्नो राजा रम्भे पुरूरवाः ॥८॥ न कर्तव्यमकामायास्तथा तेन च मैथुनम् ॥ एकस्मिन्नप्यथो भग्ने समये चारुलोचना ॥९॥ यदि वत्स्यति राजानं शिलाभूता भविष्यति ॥ उर्वशी रम्भया सार्धमेवमस्त्विति नारदम् ॥ १० ॥ उक्त्वा संपूज्य च मुनिं प्रतम्ये पुनरेव च ॥ नारदो व्यगमच्छिघ्रं पुरं वैश्रवणस्य च ॥ ११ ॥ ददर्श च प्रतिष्ठानं चौर्वशी रम्भया सह ॥ प्राकारगोपुरेणार्थेन काञ्चनेन विराजितम् ॥१२॥ चतुर्भिर्गोपुरैःशुभ्रै राजतैश्च विराजितम् ॥ शोभनं च तथा रम्यं विद्युन्मय च तोरणैः ॥ १३ ॥ सुविभक्तमहापण्यं महागजपथं शुभम् ॥ परिखा भिर्विचित्राभिः पद्मिनीभिरलंकृतम् ॥ १४ ॥ वसुभिश्चिद्धिभिः प्रासादैः पाण्डरैश्चोपशोभितम् ॥ शृङ्गाटवनभूयिष्ठं दिव्यं प्रसृपसुतम् ॥ १५॥ वणि ग्भिरुपसंकीर्णं नानापण्यविभूषितम् ॥ ऐरावतकुलोपन्नैःशलपर्वतसंन्निभैः ॥१६॥ कुंजरैर्बहुसाहस्त्रैःसंयुक्तं सुमनोहरैः ॥ तुगैर्वाजितैश्च पवनस्य समेर्जवै ॥ १७ ॥ पानमत्तैनरैर्युक्तमुद्यानेषु ततस्ततः ॥ शङ्खभेरिमृदङ्गानां पटहानां च निःस्वनैः ॥१८॥ विविधानां च वाद्यानां वादितां सर्वथैवम् गम् ॥ ब्रह्मघोषं महाघोषं वीणावेणुनिनादितम् ॥१९॥ हृष्टपुष्टजनाकीर्णं सर्वबाधाविवर्जितम् ॥ पद्मकिंजल्कवर्णाभिर्युतं स्त्रीभिः महम्मदैः॥२०॥ श्यामाभिश्च महाराज काण्डगौरिभिरेव च ॥ ॥ नानावेषधरैर्युक्तं नानादेशोद्भवैस्तथा ॥२१॥ नर्तकैर्नर्तकीपैश्च शिल्पेश्च ह्यनेकशः ॥ पूज्य तस्य मध्ये सा ददर्श नृपतेर्गृहम् ॥ २२ ॥ मध्ये हिमाचलस्येव कैलासं पर्वतौत्तमम् ॥ श्रीमद्भिः संयुतं रम्यैर्गृहमैः सहस्त्रशः॥२३॥सुधावदातैर्विपुलैश्चन्द्र
॥ ८३ ॥