विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 217, कुल 1001 में से
संदर्भ में पढ़ेंमानद ॥७॥ तदस्वास्थ्यं कामकृतं ज्ञातवानस्मि ते नृप ॥ तन्ममाचक्ष्व ते गुह्यं न चेन्नरवरेात्तम ॥ ८ ॥ पुरूरवा उवाच ॥ तव गुह्यं न मे किञ्चि- त्कदाचिदपि विद्यते ॥ अस्वास्थ्यकारणं सौम्य तव वक्ष्याम्यात्मनः ॥ ९ ॥ नारायणसुता कान्ता रूपेणाप्रतिमा शुभा ॥ उर्वशीनामतः ख्याता मया दृष्टा वराप्सराः॥१०॥ यतः प्रभृति चार्व्वङ्गी ततः प्रभृति मे सखे ॥ कामेनालेाक्यते चित्तं न च शाम्यति मे तथा ॥ ११ ॥ न चोपायं प्रपश्यामि तस्या लाभे द्विजोत्तम ॥ देवतानामपि शुभा दुर्लभा सा वराङ्गना ॥ १२ ॥ एवं दुःखपरीतस्य सखे कालेा गतो मम ॥ उपभुक्ता मया स्वप्ने साथ चार्व्वसितेक्षणा ॥ १३ ॥ चन्द्रकान्तगृहे ह्यस्मिन्काममार्गणताडिता ॥ चन्द्रोदये चारुमुखी त्रैलोक्यैकसुन्दरी ॥ १४ ॥ विनोदनार्थं हि सखे मनसोऽति मनोहरम् ॥ चन्द्रोदये ततः प्राप्तं चन्द्रकान्तशिलागृहम् ॥ १५ ॥ तदेहि त्वरितं सौम्य प्रविश्य रुचिरं गृहम् ॥ विनोदयामि हृदयं मन्मथेन वशीकृतम् ॥ १६ ॥ सखेावाच ॥ यथा दृष्टं त्वया स्वप्ने तथाय भविता ध्रुवम् ॥ सापि कामपरीताङ्गी त्वामु- पैष्यति भामिनी ॥ १७ ॥ मार्कण्डेय उवाच ॥ एवमुक्ता विवेशाथ चन्द्रकान्तशिलागृहम् ॥ आसाञ्चक्रे तदा तस्मिन्मदनेन वशीकृतः ॥ १८ ॥ उर्व्वशी रम्भया सार्धं तच्छ्रुत्वा हर्षमागता ॥ आत्मानं दर्शयामास रम्भापि नृपतेस्तदा ॥ १९ ॥ जयेत्युक्त्वा महीनाथं रम्भा कामवशात्तदा ॥ बभूव पुरतस्तस्य शोभयन्तीव तद्गृहम् ॥ २० ॥ तामुवाच ततो राजा स्वागतं ते वरानने ॥ अलङ्कुरुष्व चार्व्वङ्गि रत्नमासनमिदं शुभम् ॥ २१ ॥ रत्नासनोपविष्टायां तदागमनविस्मितः ॥ तदा राजीववक्त्रांस्तामुवाच वराननाम् ॥२२॥ शक्रस्य नगरं रम्यं राजते नित्यशस्त्वया ॥ पौर्णमास्या यथा रात्रिः शशाङ्केनेव भामिनि ॥ २३ ॥ त्वं सभामण्डनं तस्य सचिच्छ्त्या त्वं च तुम्बुरोः ॥ त्वयाभिभूतास्सकलाः स्त्रियः सुप्ताः सुशो- भने ॥ २४ ॥ त्वयाभिभूताः सकलाः स्त्रियः स्वर्गे सुशोभने ॥ तव नेत्रसहस्रेण पश्यन्नपि तु पाकहा ॥ २५ ॥ सर्वत्र चारुसर्वाङ्गि न तृप्यति शुभानाने ॥ तन्ममाचक्ष्व सुभगे इहागमनकारणम् ॥ २६ ॥ रम्भोवाच ॥ शृणुष्वावहितो राजन्ममागमनकारणम् ॥ श्रुत्वा तच्च नरेन्द्रन्दु कुरुष्व वचनं मम ॥ २७ ॥ नारायणसुता देवी तत्र त्रैलोक्यसुन्दरी ॥ उर्वशी नाम चार्व्वङ्गी भूमिपाल सखी मम ॥ २८ ॥ सा त्वां दृष्ट्वा महेन्द्रस्य सदने काममोहिता ॥ न शर्म लभते बाला हाहिति वदती मुहुः ॥ २९ ॥ सा त्वद्धर्मेनंगेन मार्गणैर्भृशपीडिता ॥ लावण्य- शेषा संवृत्ता दिनैः कतिपयैः शुभा ॥ ३० ॥ क्षामक्षामकपोला सा त्वत्सन्समर्पितमानसा ॥ मदनेनाभितप्तांगी मानमुत्सृज्य भामिनी ॥ ३१ ॥ प्रस्थिता सा मया सार्द्धं तव दर्शनलालसा ॥ अन्तरा नारदेनोक्ता यत्र त्वं प्रस्थिता शुभे ॥ ३२ ॥ तत्र त्वया तु वक्तव्यं समयेन वरानने ॥