विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 229, कुल 1001 में से
संदर्भ में पढ़ेंयावदश्नन्ति वाग्यताः ॥ ४६॥ तावदश्नन्ति पितरो यावन्नोक्ता हविर्गुणाः ॥ उच्छिष्टमार्जनं यावन्न कृतं नृपसत्तम ॥ ४६॥ तावदश्नन्ति पितरः स्वधा- रसविमिश्रितम् ॥ हस्तदत्तानि लेह्यानि लवणं व्यञ्जनानि च॥ ४७॥ दातारं नोपतिष्ठन्ति भोक्ता भुङ्क्ते च किल्विषम् ॥ सौवर्णे राजताभ्यान्तु खड्गेण पा- त्रेण चाप्यथ ॥ ४८ ॥ दत्तमक्षयतां याति खड्गोनेनोदुम्बरेण वा ॥ मांसं नाश्नाति यः पङ्क्त्यां यथावद्विनियोजितम् ॥ ४९॥ स प्रेत्य नरकं याति नात्र कार्या विचारणा ॥ ५० ॥ श्राद्धे दाता च भोक्ता च मैथुनं यदि गच्छतः ॥ तन्मासं पितरस्तस्य भुञ्जते रेतसा युतम् ॥ एवं श्राद्धं तथा कार्यं शूंद्रेणापि नराधिप ॥ ५१ ॥ मन्त्रवर्ज्यं हि शूद्रस्य सर्वमेतद्विधीयते ॥ वज्र उवाच ॥ यस्य जीवतिपिता श्राद्धं कस्यासौ कर्तुमर्हति ॥ ५२ ॥ त्वमेव संशयच्छेत्ता संशयं छिन्धि मे द्विज ॥ मार्कण्डेय उवाच ॥ येषां श्राद्धं पिता कुर्यात्तेषामेव स कारयेत् ॥ मन्त्रहीनं प्रकर्त्तव्यं तेन श्राद्धं यथा विधि ॥ ५३॥ मातामहानां श्राद्धं तु मन्त्रहीनं च कारयेत् ॥ श्राद्धं च सुहृदां कुर्यात्स्त्रीणां चाक्षयवाचकम् ॥ ५४ ॥ वज्र उवाच ॥ पिता पिता- महश्चैव जीवतां यस्य देहिनः ॥ तेन श्राद्धं कथं कार्यं तन्ममाचक्ष्व पृच्छतः ॥ ५५॥ मार्कण्डेय उवाच॥ येषां पितामहः कुर्यात्तेषां श्राद्धं नराधिप ॥ तेन कार्यं महाप्राज्ञ यथावदनुपूर्वशः ॥ ५६ ॥ वज्र उवाच ॥ पिता पितामहश्चैव तथैव प्रपितामहः ॥ यस्य जीवन्ति कर्तव्यं तेन श्राद्धं कथं द्विज ॥ ५७ ॥ मार्कण्डेय उवाच ॥ तेन श्राद्धं न कर्तव्यं विधिलोपो नु यादृव ॥ पूजनीयाश्च पितरः पितामहपितुः स्वयम् ॥ ५८ ॥ वज्र उवाच ॥ जीवतिपितामहो यस्य पितुश्चैव पितामहः ॥ पिता प्रेतस्तथा यस्य तस्य श्राद्धविधिं वद ॥ ५९ ॥ मार्कण्डेय उवाच ॥ पिण्डनिर्वपणं कृत्वा स पितुर्मनुजेश्वर ॥ पितुः पितामहादूर्ध्वं द्वाभ्यां पिण्डं निवेदयेत् ॥ ६० ॥ वज्र उवाच ॥ पिता पितामहो प्रेतौ यस्य स्यातां द्विजोत्तम ॥ पितुः पितामहो जीवत्तस्य श्राद्धविधिं वद ॥ ६१॥ मार्कण्डेय उवाच ॥ पित्रे सपिण्डं कृत्वा तु पिण्डनिर्वपणं ततः ॥ पिण्डनिर्वपणं कुर्यात्पितामहपिता- महो॥ इत्यावज्र उवाच॥ प्रेतः पिता भवेद्यस्य पितुश्चैव पितामहः॥ तेन कार्यं कथं श्राद्धं तन्ममाचक्ष्व पृच्छतः॥ ६३॥ मार्कण्डेय उवाच॥ स तु दत्त्वा पितुः पिण्डं ततः ऊर्ध्वं पितामहात् ॥ द्वाभ्यां दद्यात्सदा पिण्डं त्वेवमाहुर्मनीषिणः ॥ ६४ ॥ वज्र उवाच ॥ प्रेतः पितामहो यस्य पिता जीवे- द्विजोत्तम ॥ पितुः पितामहो जीवस्तस्य श्राद्धविधिं वद ॥ ६५ ॥ मार्कण्डेय उवाच ॥ दत्त्वा पितामहे पिण्डं स तूर्ध्वं प्रपितामहात् ॥ पिण्डनिर्व- पणं कुर्याद्भ्यामित्यमतेन्द्तः॥ ६६॥ वज्र उवाच॥ सप्ताधिपमहं मन्त्रं श्रोतुमिच्छामि भार्गव ॥ श्राद्धकालेषु नियतं रक्षोघ्नं यन्मय कीर्तितम्॥ ६७॥
१ 'श्राद्धन्तु' इति क० ।
१६