विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 231, कुल 1001 में से
संदर्भ में पढ़ेंविहीनाश्च ये च देशा नराधिप ॥ अन्येष्वपि च देशेषु तद्देशजनदर्शनम् ॥ ४ ॥ वर्जयेच्छ्राद्धकाले तु पतितानां विशेषतः ॥ रजस्वलाश्र्व षण्ढाश्च श्वानसूकरकुक्कुटाः ॥ ५ ॥ यथा श्राद्धं न पश्यन्ति तथा कार्यं विजानता ॥ रक्षार्थं चाप्यथेतेषां गुप्तिः कार्या नरेश्वर ॥६॥ तिलांविकीर्य्य कार्यं यातुधानविनाशनम् ॥ पिण्डांश्च गोऽजाविप्रेभ्यो दद्यादग्नावथ क्षिपेत् ॥ ७ ॥ मध्यमं पुत्रकामा वा पत्नी पिण्डं च भक्षयेत् ॥ तीर्थश्राद्धे सदा पिण्डान्क्षिपेत्तीर्थे विचक्षणः ॥ ८ ॥ दक्षिणाभिमुखो भूत्वा पित्रो रिक्ता प्रकीर्त्तिता ॥ पिण्डनिर्वपणं कार्यं कुशा लाभे विचक्षणैः ॥ ९ ॥ कुशेशु राजन्सर्वेषु पवित्रे ते परे मते ॥ सूत्रं प्रदेयं वासोऽर्थं क्षौमकार्पाससम्भवम् ॥ १० ॥ दशां विवर्जयेत्प्राज्ञो यद्यप्याहतवस्त्रजा ॥ क्षौमकार्पासं त्यक्त्वा सूत्रमन्यन्न दापयेत् ॥ ११ ॥ घृतेन दीपो दातव्यस्त्वथावाप्यौषधैरसैः ॥ वसामेदोद्भवं दीपं प्रयत्नेन विवर्जयेत् ॥ १२ ॥ चन्दनागुरुकर्पूरकुङ्कुमैश्च प्रदापयेत् ॥ अश्मधेमसमा होते पितॄणामनुलेपनाः ॥ १३ ॥ न दातव्यं मलुयेन्द्रं यदन्यच्चानुले पनम् ॥ धूपो गुग्गुलुजो देयस्तथा चन्दनसारजम् ॥ १४ ॥ अगुरुं च सकर्पूरं तुरुष्कं च प्रदापयेत् ॥ अतोऽन्यदपि यत्किंचिद्धूपार्थं तद्विवर्ज येत् ॥ १५ ॥ सघृतं गुग्गुलं धूपं धूपार्थं यः प्रयच्छति ॥ अश्वमेधफलं तस्य धूपदातस्तथैव च ॥ १६ ॥ जात्यश्च सर्वा दातव्या मल्लिका श्वेतयूथिका ॥ जलोज्वानि सर्वाणि कुसुमानि विवर्जयेत् ॥ १७ ॥ यानि कण्टकिजातानि न देयानि नराधिप ॥ यानि कण्टकितायाणि शुक्लानि सुरभीणि च ॥ १८ ॥ तानि राजेन्द्र देयानि लताजानि विशेषतः ॥ रक्तानि जलजातानि तथा देयानि यादव ॥ १९ ॥ विपुलां श्रियमाप्नोति पितृन्पुष्पैः समर्चयन् ॥ अनर्ह्याणि विवर्ज्यानि श्राद्धे नियमतन्द्रितैः ॥ २० ॥ भक्ष्येष्वापि न देयानि यानि तानि निबोध मे ॥ भूस्तृणं सुमुकं शिग्रुं पालक्यं तण्डुलीयकम् ॥ २१ ॥ कूष्माण्डालाबुवृन्ताकनिप्पलीमरिकानि च ॥ श्राद्धेषु नांगरं देयं लवणं सैन्धवं तथा ॥ २२ ॥ सैन्धवव्यतिरेकेण लवणानि न दापयेत् ॥ नक्तं गृहीतमुदकं तथा पल्वल्सम्भवम् ॥ २३ ॥ श्राद्धकाले विवर्ज्यं च माहिषं क्षीरमेव च ॥ राजमाषमसूराश्च चणकाः कोद्रवषकाः ॥ २४ ॥ वर्ज्याश्चामिषवो नित्यं शतपुष्पं गवेधुकम् ॥ कर्माणि कुसुमभं च पटोलं बृहतीफलम् ॥ २५ ॥ करीसुरभी चोभौ प्रतिगन्धि च यद्भवेत् ॥ जम्बीरफलं वर्ज्यं कोविदारं च पार्थिव ॥ २६ ॥ वस्तुसंदर्शनं शस्तं श्राद्धे नित्यमरिन्दम ॥ कुतपस्य च सान्निध्यं तथा कृष्णाजिनस्य च ॥ २७ ॥ कृष्णाजिनस्य दानं च रजतस्य विशेषतः ॥ कृष्णाजिनं सकुतपं कृष्णानि च तिलानि च ॥ २८ ॥ श्राद्धकर्मणि शस्तानि विद्पन्तित्तस्तुतस्तथा ॥ सोमः सदैव मासान्ते रविणा सह संगतः ॥ २९ ॥