भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 232, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 232

वि० ध० ॥ ९२ ॥

प्र० खं० अ० १४१

आपश्चैवौषधीश्चैव तदा विशति पार्थिव ॥ अपायां तु पयः पीत्वा युक्ता चैवौषधीः शुभाः ॥ ३० ॥ पयः क्षरन्ति यदिच्छं गावोऽमृत- रसोपमम् ॥ तत्पवित्रं परं राजन्कापिलं चेद्विशेषतः ॥ ३१ ॥ हव्ये कव्ये च तद्राजन्सोमतुल्यं प्रकीर्तितम् ॥ तिलैर्ब्रीहिर्य- वैर्माषैरद्भिर्मूलफलेन च ॥ ३२ ॥ प्रियङ्गुभिस्तथा दारैः शृङ्गाटकफलैः शुभैः ॥ गोधूमैश्चैक्षुभिश्चैः सचीनैचणकैरतथा ॥ ३३ ॥ श्यामाकैर्हस्तिश्यामाकैर्मधूकैर्हव्यदाडिमैः ॥ पनसैरनलिकैश्च खर्जूरप्रफलैस्तथा ॥ ३४ ॥ आम्रातैश्चाम्रनागैरौर्बलैर्दीर्घैश्च मूलकैः ॥ विदार्याऽनि- र्भटैश्च विशेषैश्च वराटकैः ॥ ३५ ॥ पिचुन्दैश्च तथा कंदैर्बदरैः करकन्दुभिः ॥ पालेवतै राष्ट्रकैश्च अक्षोदैः पनसैस्तथा ॥ ३६ ॥ काकोलैः क्षीरकाकोलैस्तथा पिण्डालुकैः शुभैः ॥ सुवर्चलामधूकैश्च वास्तुकेन च पार्थिव ॥३७॥ सिताखण्डगुडेर्मुख्यैः फणितेन च सर्पिभिः ॥ लामित्रैश्च सदानाभिश्चैवोत्सर्वारुचिभिर्दैः ॥ ३८ ॥ सर्षपाराजशाकाभ्यामिङ्गुदे राजजम्बुभिः ॥ प्रियालामलकैर्मुख्यैः फल्यभिश्च तिलोल्लकैः ॥ ३९ ॥ वेत्रा- ङ्कुरैस्तालद्रुमैश्चुक्रैर्काक्षीरकायवैः ॥ चौरैः समोचैर्लकुचैरथैवाथै बीजपूरकैः ॥ ४० ॥ छात्रातिच्छत्रकांगौराकैः कल्कण्डुकशर्कराकैः ॥ सुजातैकैः पद्मफलैर्धन्यैर्भोज्यैः सुसंस्कृतैः ॥ ४१ ॥ रागषाढवचोष्यैश्च त्रिजातकसमन्वितैः ॥ दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृणाम् ॥ ४२ ॥ द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु ॥ औभ्रेणाथ चतुरः शाकुनेन च पञ्च वै ॥ ४३ ॥ षण्मासांश्छागिकेनापि सप्त पारिषतेन च ॥ तथाऽष्टौ छागमांसेन पयसा पायसेन च ॥ ४४ ॥ वाराहेण नवैवाहू रौरवेण तथा दश ॥ मासानेकादशश्वाहुरुशनेन नराधिप ॥ ४५ ॥ संवत्सरं तु गव्येन पयसा पायसेन च ॥ पयोविकारैश्च तथा हव्यैश्च मनुजेश्वर ॥ ४६ ॥ पानकैश्च तथा हद्यैर्विसुगन्धैः सुशीतलैः ॥ वार्ध्रीण सस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ ४७ ॥ वज्र उवाच ॥ वार्ध्रीणसमहं ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः ॥ यस्य मांसन कथिता तृप्तिर्द्वादश- वार्षिकी ॥ ४८ ॥ मार्कण्डेय उवाच ॥ त्रिपिबन्त्विन्द्रियक्षीर्णं यूथस्याग्रसरं तथा ॥ रक्तं वर्णेन राजेन्द्र छागं वार्ध्रीणसं विदुः ॥४९॥कालशाकं महाशल्कं खड्गमांसं तथैव च ॥ आनन्त्याय भवेद्दत्तं सर्वं च मधुसंयुतम् ॥ ५० ॥ खड्ग विषाणैः परिवर्जिता ये तेषां हि मांसेन भवन्त्यन- न्तम् ॥ श्राद्धं महाराज ततः प्रदेयं खड्गस्य मांसिन हिताय तेषाम् ॥ ५१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० श्राद्धहविर्वर्णनो नाम कचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४१ ॥ ॥ छ ॥ ॥ वज्र उवाच ॥ ॥ श्राद्धकालं समाचक्ष्व सर्वधर्मभृतां वर ॥ कस्मिन्काले कृते श्राद्धे प्रीयन्ते पितरो नृणाम् ॥ १ ॥ मार्कण्डेय उवाच ॥ श्राद्धकालस्त्वमावास्यां नित्यं पार्थिवसत्तम ॥ पौर्णमासी तथा माघी श्रावणी च ॥ ९२ ॥