भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 233, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 233

नरोत्तम ॥२॥ प्रोष्ठपद्यामतीतायां तथा कृष्णत्रयोदशी ॥ आग्रहायण्यतीतायां कृष्णास्तिस्रोऽष्टकास्तथा ॥३॥ शाकैश्च प्रथमं कार्यं मांसैश्च तदनु न्तरा ॥ तृतीया च तथाऽपूपैर्नित्यमेव विजानता ॥ ४ ॥ अन्वष्टकासु च स्त्रीणां श्राद्धं कार्यं तथैव च ॥ अष्टकाविधिना हुत्वा क्रमेणैतास्तु पञ्चकाः ॥ ५॥ मात्रे राजन्पितामह्यै श्राद्धं कार्यं यथाविधि ॥ तथैव प्रपितामह्यै विश्वेदेवपुरस्सरम् ॥६॥ पिण्डनिर्वपणं कार्यं तासां च पितृवन्नृप॥ भुक्तेष्वथ च विप्रेषु तत्र कर्म निबोध मे ॥ ७ ॥ प्रादेशमात्रा राजेन्द्र चतुरंगुलमायताः ॥ तावदेव समुत्सेधाः षट्कुर्युस्तत्र कारयेत् ॥ ८ ॥ प्रत्येककर्षुमूले तु परिस्तीर्य हुताशनम् ॥ अग्निसोमयमौनां च यागं कृत्वा यथा पुरा ॥ ९ ॥ कर्षुत्रितयमूले तु पुरुषाणां तु कारयेत् ॥ पिण्ड निर्वपणं प्राग्वदेकैकस्मिन्यथाविधि ॥ १० ॥ कर्षुमिश्रितयं तच्च क्षीराद्भिः प्रपूर्येत ॥ कर्षुत्रितयमूले तु स्त्रीणां निर्वपणं भवेत् ॥ ११ ॥ दध्ना मांसेन पयसा कर्षूणां चैव पूरणम् ॥ १२ ॥ अन्नेनोदकमिश्रेण कार्यं मनुजपुङ्गव ॥ १२ ॥ भवन्तीभ्यो भवेदेतद्वश्यं परिकीर्तितम् ॥ एतानि श्राद्धकालानि नित्यान्याह प्रजापतिः ॥ १३ ॥ श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते ॥ वृद्धौ श्राद्धं नरः कुर्वन्प्रियं वृद्धिमवाप्नुते ॥ १४ ॥ वृद्धौ समर्चयेद्विद्वांस्त्रित्यं नान्दीमुखांन्पितॄन् ॥ वृद्धिश्राद्धेषु कर्तव्यास्तिलस्थाने यवास्तथा ॥ १५ ॥ कर्कन्दुदधिसंमिश्रांस्तथा पिण्डांश्च निर्वपेत् ॥ अच्छिद्रनामभिः कर्तव्यं श्राद्धं वै पुत्रजन्मनि ॥ १६ ॥ आधोचोपरमे कार्यमथवाऽपि नराधिप ॥ विवाहदिवसे श्राद्धं तथा कार्यं विचक्षणैः ॥ १७ ॥ वृद्धिश्राद्धं विधानेन चन्द्रे जन्मर्क्षमन्त्रिते ॥ श्राद्धं प्रयत्नात्कर्तव्यं भूतिकामेन पार्थिव ॥ १८ ॥ उत्तरादयनाच्छ्राद्धं श्रेष्ठं स्याद्दक्षिणायने ॥ चातु र्मास्ये च तत्रापि प्रसुप्ते केशवे हितम् ॥ १९ ॥ प्रोष्ठपद्यपरं पक्षं तथापि च विशेषवत ॥ पञ्चम्यूर्ध्वं च तत्रापि दशम्यूर्ध्वं ततोऽप्यति॥२०॥ मघासंयुता च तत्रापि शस्ता राजंस्त्रयोदशी ॥ तत्राक्षयं भवेच्छ्राद्धं मधुना पायसेन च ॥ २१ ॥ सर्वस्वेनापि कर्तव्यं श्राद्धमत्र नराधिप ॥ परामभोजौ त्वपचः श्राद्धमत्र तु कारयेत् ॥ २२ ॥ यस्तु श्राद्धं सदा कुर्यात्सोऽश्वमेधफलो भवेत् ॥ निद्रां त्यजति सर्वोत्मा यस्मिन्काले जनार्दनः ॥ २३॥ तत्र श्राद्धमनन्तं नात्र कार्या विचारणा ॥ श्राद्धं संक्रमणे भानोः कर्तव्यं पृथिवीपते ॥ २४ ॥ विषुवद्वितयं तत्र अयने द्वे विशेषतः ॥ व्यती पाते तथा श्राद्धं ज्ञेयं बहुफलं नृप ॥ २५ ॥ अक्षय्यं च तथा श्राद्धं विज्ञेयं राहुदर्शने ॥ व्रीहिपाके च कर्तव्यं यवपाके तथैव च ॥ २६ ॥ अप न ताननुमहाराज विना श्राद्धं कथंचन ॥ आश्विनस्यापरे पक्षे प्रथमे कार्तिकस्य च ॥ २७ ॥ पूर्वाह्ने शुक्लपक्षस्य श्राद्धं कुर्याद्विचक्षणः ॥ अप राह्ने तथा कार्यं कृष्णपक्षे नराधिप ॥ २८ ॥ संध्ययोर्वर्जयेच्छ्राद्धं तत्र रात्रौ नरेश्वर ॥ रात्रावपि च कर्तव्यं यदा स्याद्राहुदर्शनम् ॥ २९ ॥