विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 266, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० प्र० खं० अ० १६६ ॥१०१॥
गायत्रं छन्द एव च ॥ विश्वामित्र ऋषिश्चैव प्रोच्यते वसुधाधिप ॥ ७० ॥ कर्मेन्द्रियाणि पञ्चैव पञ्च बुद्धीन्द्रियाणि च ॥ पञ्चेन्द्रियार्थान्सं-
हर्ता भूतानां चैव पञ्चकम् ॥ ७१ ॥ मनो बुद्धिश्चतैवात्मा अव्यक्तं च यदुक्तम् ॥ चतुर्विंशत्यथैतानि गायत्र्या अक्षराणि तु ॥ ७२ ॥
प्रणवे पुरुषं विद्धि सर्वगं पञ्चविंशकम् ॥ सप्तलोकानि यानीह महाव्याहृतयस्तथा ॥ ७३ ॥ शिरस्तथा तथा वाच्यः पुरुषः परमेश्वरः ॥
एवंविधा सा सावित्री जप्तव्या सततं बुधैः ॥ ७४ ॥ होतव्या च तथा शक्त्या सर्वकामसमृद्धिदा ॥ गायत्रीमाश्रयाणो वरं
विप्रः प्रयत्नतः ॥ ७५ ॥ नायन्त्रितश्चतुर्वेदी सर्वाशी सर्वविक्रयी ॥ गायत्रीं जपेद् यस्तु कल्यमुत्थाय वै द्विजः ॥ ७६ ॥
लिप्यते न स पापेभ्यः पद्मपत्रमिवाम्भसा ॥ कामकामो लभेत्कामं गतिकामस्तु सङ्गतिम् ॥ अकामस्तदवाप्नोति यद्विष्णोः परमं पदम् ॥ ७७ ॥
एवं प्रभावा वरदा पवित्रा गायत्र्यथोक्ता तव राजसिंह ॥ जपन्ति ये तां परमं प्रयान्ति स्थानं परस्याऽप्रतिमस्य पुंसः ॥ ७८ ॥ इति श्रीविष्णु-
धर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे गायत्रीमाहात्म्यवर्णनं नाम पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ १६६ ॥ छ ॥ ॥ वज्र उवाच ॥
महावर्तिप्रदानस्य यत्फलं भृगुनन्दन ॥ तन्ममाचक्ष्व तत्त्वेन विधिं कालं तथैव च ॥ १ ॥ मार्कण्डेय उवाच ॥ महावर्तिः सदा देया भूमिपाल
महाफला ॥ कृष्णपक्षे विशेषेण तथापि च विशेषतः ॥ २ ॥ अमावास्या च निर्दिष्टा द्वादशी च महाफला ॥ आश्वयुज्यामतीतायां कृष्णपक्षस्य
या भवेत् ॥ ३ ॥ अमावास्या तदा पुण्या तादृशी वा विशेषतः ॥ देवस्य दक्षिणे पार्श्वे देया तैलतुला नृप ॥ ४ ॥ पलाकवृतां रक्तवर्तिं
तत्र तु दापयेत् ॥ महारजनरक्तेन समयेन तु वाससा ॥ ५ ॥ वामपार्श्वे च देवस्य देया घृततुला नृप ॥ पलाकयुक्तां शुक्लां वर्तिं तत्र तु
दापयेत् ॥ ६ ॥ वाससा तु समयेन सोपवासो जितेन्द्रियः ॥ महावर्तिद्वयमिदं सन्दत्त्वा महीपते ॥ ७ ॥ स्वलोके सुचिरं भुक्त्वा जायते भूतले
यदा ॥ तदा भवति लक्ष्मीवान्रूपसौभाग्यमाश्रितः ॥ ८ ॥ रात्रौ च जायते यस्मिन्देशे न नृपऽशुभम् ॥ कुले च गजशार्दूल तन्न स्याद्दीपाव-
त्यया ॥ ९ ॥ अत्युच्चलक्ष्यो भवति युद्धेषु कलहेषु न ॥ ख्यातिं याति तथा लोके सञ्जातानां च मूर्द्धनः ॥ १० ॥ एकाप्यथ यो दद्याद्
भीष्मपञ्चमयोर्द्वयोः ॥ मातृभ्ये सर्वमाप्नोति तदुक्तं ते मयाऽनघ ॥ ११ ॥ स्वर्गे तथाऽमवाप्नोति भागं कालं च याइव ॥ सामान्यस्य तु दीपस्य
राजन्दानं महत्फलम् ॥ १२ ॥ किं पुनर्महतो यस्य फलस्यान्तो न विद्यते ॥ दीपदानं परं पुण्यमन्यद्देवेष्वपि ध्रुवम् ॥ १३ ॥ किं पुनर्देव
१ 'दानम्' इति क० ख० ।
॥१०१॥