विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 265, कुल 1001 में से
संदर्भ में पढ़ेंलक्षहोमावसाने तु ब्राह्मणानां तु दक्षिणा ॥ ४४ ॥ देया भवति राजेन्द्र गावो वस्त्राणि काञ्चनम् ॥ सर्वोत्पातसमुत्पत्तौ ब्राह्मणैरुपपूजितैः ॥ ४५ ॥ पञ्चभिर्दशभिर्वापि लक्षहोमं समाचरेत् ॥ असङ्कीर्णैस्तथा होतृनृपतिस्तत्प्रशान्तये ॥ ४६ ॥ नास्ति लोके स उत्पातो यो ह्यनेन न शाम्यति ॥ मङ्गलं परमं नास्ति यत्तस्मादतिरिच्यते ॥ ४७ ॥ कोटिहोमं तु यो राजा कारयेत्पूर्ववद्विजैः ॥ न तस्य शत्रवः सङ्ख्ये जातु तिष्ठन्ति कर्हिचित् ॥ ४८ ॥ न तस्य मरणं देशे न व्याधिर्जायते तथा ॥ अतिवृष्टिस्त्वनावृष्टिर्मूषकाः शलभाः शुकाः ॥ ४९ ॥ राक्षसाश्च प्रशाम्यन्ति सर्वास्तत्र तथेूतयः ॥ रसवान्ति च तोयानि सस्यानि स्वादुवन्ति च ॥ ५० ॥ जायन्ते तस्य देशे तु धार्मिकश्च जनो भवेत् ॥ कोटिहोमे तु वरयेद्ब्राह्मणान्द्विशतीन्नृप ॥ ५१ ॥ शतं वाथ सहस्रं वा य इच्छेद्भूतिमात्मनः ॥ कोटिहोमं स्वयं यस्तु कुर्याद्ब्राह्मणसत्तमः ॥ ५२ ॥ क्षत्रियो वाथवा वैश्यस्तस्य पुण्यफलं महत् ॥ यद्यदिच्छति कामानां तत्तदाप्नोत्यसंशयम् ॥ ५३ ॥ सशरीरोऽपि चेद्गन्तुं दिवमिच्छेद्वपुष्मान् ॥ सावित्री परमा देवी सावित्री पावनी परा ॥ ५४ ॥ सर्वकामप्रदा देवी सावित्री कथिता तथा ॥ अभिचारेषु तां देवीं विपरीतां प्रयोजयेत् ॥५५॥ कार्या व्याहृतयश्चात्र विपरीताक्षरास्तथा ॥ विपरीताक्षरं कार्यं शिरश्च मनुजेश्वर ॥ ५६ ॥ आदौ शिरः प्रयोक्तव्यं प्रणवान्ते च याद्द्व ॥ स्वाहास्थाने च फट्कारं साध्यनामसमन्वितम् ॥ ५७ ॥ गायत्रीं चिन्तयेत्तत्र दीप्तानलसमप्रभाम् ॥ घातयन्तीं च शूलेन केशष्वाकृष्य वैरिणम् ॥ ५८ ॥ निर्दहन्तीं च तं क्रोधाद्भ्रुकुटीभीषणाननाम् ॥ उच्चाटने च तां देवीं वायुभूतां विचिन्तयेत् ॥ ५९ ॥ वहमानां तथा साध्यं तस्माद्देशात्सुदूरतः ॥ अभिचारे च होतव्या राजिका विषमिश्रिताः ॥६० ॥ स्वरक्तमिश्रं होतव्यं कटुतैलमथापिवा ॥ तत्रापि च विषं देयं हेमकाले च यत्नतः॥६१॥ मध्ये जह्लादि क्रोघं ध्रुवं नश्येत्स एव तु ॥ अनागसि न कर्तव्यमभिचारमतो बुधैः ॥ अल्पामसि न कर्तव्यमभिचारं तथैव तु ॥ ६२ ॥ महापराधं बलिनं देवब्राह्मणकण्टकम् ॥ अभिचारेण यो हन्यान्न स दोषेण लिप्यते ॥ ६३ ॥ धर्मप्रधाने तु नरे अल्पागसि तथैव च ॥ अभिचारं न कुर्वीत बहुपायं विचक्षणः ॥ ६४ ॥ बहूनां कण्टकं यं तु पापात्मानं सुदुर्मतिम् ॥ हन्यात्खातापराधं तु तस्य पुण्यफलं लभेत ॥ ६५ ॥ ये भक्ताः पुण्डरीकाक्षं देवदेवं जनार्दनम् ॥ न तानभिचरेज्जातु तत्र तद्विफलं भवेत् ॥ ६६ ॥ न हि केशवभक्तानामभिचारेण कर्हिचित् ॥ विनाशमभिपेत् तस्मात्तत्र समाचरेत् ॥ ६७ ॥ सेयं धात्री विधात्री च सावित्र्यघविनाशिनी ॥ प्राणायामेन जपेन तथैवान्त र्जलेन च ॥ ६८ ॥ सव्याहृतिकप्रणवा जप्तव्या शिरसा सह ॥ प्रणवेन तथाऽभ्यस्ता वाच्या व्याहृतयः पृथक् ॥ ६९ ॥ दैवतं सविता त्वस्या
१९